________________
२
साहित्यदर्पणे.
-
-
प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः । नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिं धारयम्
गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः ।।'
शील इति भावः । अथवा दुर्गः अलक्षितः = अनतिक्रान्तः, विग्रहः यस्य सः, दुर्गध्यवधानं विनव युद्धाऽनुष्ठानशील इति भावः । तेजसा = शरीरकान्त्या, मनसिज = कामदेवं, संमीलयन् = पराभवन, प्रोद्यद्राजकलः = प्रोगन्ती ( समुदीयमाना ) राजकला (भूपांऽशः ) यस्य सः। गृहीतगरिमा = गृहीतः (प्राप्तः ) गरिमा ( गौरवम् ) येन सः । भोगिभिः = सुखोपमोगसंपन्नः जनः, विष्वक् = सर्वतः, वृतः = परिवेष्टितः । नक्षत्रेशकृतेक्षणः क्षात्रेशेषु (मात्रियश्रेष्ठसु राजसु) कृतेक्षणः ( कृतनिरीक्षणः ) न क्षात्रे. शकृतेक्षणः = श्रेष्ठभूपालेषु अपि प्रतापातिशयेन तिरस्कर्ता इति भावः । गिरिगुरी-गिरिः (हिमालयः ) गुरुः ( पूज्यः ) श्वशुरत्वेनेति भावः यस्य स गिरिगुरुः शिवः, तस्मिन् । गाढां = दृढां, रुचिम्-अभिलाषं, भक्तिमिति भावः । धारयन् = दधानः, गां - भूमिम. आक्रम्य = अधिकृत्य, विभूतिभूषिततनुः = विभूत्या ( ऐश्वर्येण ) भूषिता (अलङ्कृता) तनु: ( शरीरम् ) यस्य सः, तादशः. उमावल्लभः = उमानाम्न्या महादेव्याः वल्लभः (प्रिय:) भानुदेव इति भावः । राजति = शोभते । अत्र दुर्गाऽऽदिपदान्यनेकार्थकानि प्रकरणवशात्पूर्वप्रदर्शिताऽर्थे नियन्त्रिते सति तत्तच्छब्दा व्यञ्जनयाऽर्थान्तर बोधयन्ति । तथा हि--दुर्गालवितविग्रहः = दुर्गया (पार्वत्या ) लङ्धितः (आलिङ्गनेन आक्रान्तः) विग्रहः (शरीरम् ) यस्य सः । तेजसा = नयनज्योतिषा, मनसिजं = कामदेवं, संमीलयन् विनाशयन्, प्रोद्यद्राजकल:=प्रोद्यन्ती (प्रकाशमाना ) रागः (द्विजराजस्य चन्द्रमस इत्यर्थः ) कला ( अंशः ) यस्य सः, शिरसि इति शेषः । गृहीतगरिमा = गृहीतः (स्वीकृतः ) गरिमा ( जगद्गुरुगौरवम् ) येन सः । भोगिभिः सः, विष्वक्-समन्ततः, तुतः = वेष्टितः, अलङ्कारस्वेनेति शेषः । नक्षत्रशकृतेक्षणः-नक्षत्रेशेन (चन्द्रमसा) कृतम् (विहितम् ) ईक्षणं ( नेत्रम् ) येन सः, शिवस्य सूर्य केन्द्रवह्निनेत्रत्वादिति भावः । गिरिगुरौ = कलासपर्वते, गाढां-दृढां, चिम्-निवासाऽभिलाषं, धारयन् = दधानः, गांवृषम्, आक्रम्य, स्थित इति शेषः । विभूतिभूषिततनुः = विभूत्या ( भस्मना ) भूषिता ( अलङकृता ) तनुः ( शरीरम् ) यस्य सः । तादृशः उमावल्लभः = पार्वतीप्रियः, शिव
इति भावः । राजति = शोभते । वाले, अपने सौन्दर्य से कामदेवको पराभूत करनेवाले, राजकलासे सम्पन्न, गौरव (महत्त्व).. को प्राप्त करनेवाले, सुखका उपभोग करनेवाले जनोंसे घिरे हुए, श्रेष्ठ क्षत्रिय राजाओंपर अभिमानसे दृष्टिपात भी न करनेवाले, शिवजीमें दृढ प्रीति रखनेवाले पृथ्वीको अधिकारमें रखकर ऐश्वर्यसे अलस्कृत शरीरवाले "उमा" नामकी महारानीक पवि भानुदेव नामक