SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः - - एवमे कस्मिअर्थऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साऽभिधामूला व्यन्जना। यश मम तातपादानां महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसान्धिविग्रहिकाणाम् 'दुर्गालधितविग्रहो मनसिजं संमीलयंस्तेजसा काद्याकारत्वं पद्मकुङ्मनाद्याकृतित्वम् । एतावत्पदस्य नानाकारबोधकत्वेन अनेकाऽर्थत्वम्। चेष्टाविशेषस्तु आकारविशेषस्मारकः । अभिधामूलां व्यञ्जनामुपसंहरति एवमिति । एवम् = इत्थम्, एकस्मिन् = एकत्र, अर्थे = वाच्ये, अभिधया = शक्या, नियन्त्रिते = नियमिते, या, शब्दाऽर्थस्य = पदार्थस्य, अन्गऽर्थबुद्धिहेतुः = अपरार्थज्ञानकारणं, शक्तिः = वृत्तिः, सा, अभिधामूला ब्यजना । अयं भावः । यत्र अर्थद्वयस्य अभिधया तात्पर्य स श्लेषः, यत्र तु एकाऽर्यस्य अभिधया प्रतीतिः द्वितीयार्थस्य यया प्रतीतिः सा व्यञ्जना। यथेति । मम-विश्वनाथकविराजस्य, तातपादानां पितृचरणानां "महापात्रे"ति राजसंमान्यपदयुक्तानां, चतुर्दश भाषा एव विलासिन्यः ( विलसनशीला रमण्यः ) तासां भुजङ्गानां (विटानाम् ) महाकवीश्वराणां श्रीचन्द्रशेखरसान्धिविग्रहिकाणाम् । सन्धिविग्रहाभ्यां चरन्तीति सान्धिविग्रहिकाः, तेषां सान्धिविग्रहिकाणां मन्त्रिणामित्यर्थः । "सन्धिविग्रह" शब्दात् "चरति" इति सूत्रेण ठज् । ठस्येकः, अदिवृद्विश्च । अभिधामूलां व्यञ्जनामुदाहरति-दुर्गालधितविग्रह इति।। दुर्गालधितविग्रहः तेजसा मनसिज सम्मीलयन् प्रोद्यद्राजकल: गृहीतगरिमा भोगिभिः विष्वग्वृतः नक्षत्रेणकृटेक्षणो गिरिगुरी गाढा रुचि धारयन् गाम् आक्रम्य विभूति. भूषिततनुः उमावल्लभो राजति इत्यन्वयः । अत्र अभिधावत्या प्रकृतमहादेव्या उमाया वल्लभो भानुदेवनामको नृपतिर्वर्ण्यते । स यथा-दुर्गालवितविग्रहः = दुःखेन गम्यते अति दुर्गाणि गिरिदुर्गादीनि, “सुदुरोरधिकरणे" इति उप्रत्ययः । दुर्गभेदा यथा:-- "धन्त्रदुर्ग महीदुर्गमब्दुर्ग वार्शमेव वा। नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत्पुरम् ॥ मनः ७-७१ । दुर्गः-धन्वदुर्गादिभिः; अलधितः प्रतिरोधमगरित, विग्रहः (युद्धम्) यस्य सः, दुर्ग भित्वाऽपि युद्धाऽनुष्ठान. इत्यादिमें हाथ आदिसे की गई चेष्टा आदियोंसे स्तन आदियोंका कमलके कुङ्मल आदिके समान आकार होना जाना जाता है। इस प्रकार अभिधासे एक अर्थ नियन्त्रित होनेपर जो शब्दार्थका भिन्न अर्थके ज्ञानका कारण शक्ति है वह "अभिधामूला व्यञ्जना" है । इसका उदाहरण मेरे पिता महापात्र, चौदह भाषाओंके विज्ञाता महाकवीश्वर चन्द्रशेखर सान्धिविग्रहिकका हैदुर्गेत्यादि । शत्रुओंके किलोंको भेदन कर लडनेवाले वा किलोंमें न रहकर भी युद्ध करने
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy