________________
द्वितीयः परिच्छेदः
इदं च केऽप्यसहमाना आहुः-स्वरोऽपि काक्वादिरूपः काव्ये विशेषप्रतीतिकृदेव। उदात्तादिरूपोऽपि मुनेः पाठोपदिशा शृङ्गारादिरसविशेषप्रतीतिकदेव' इति एतद्विषये उदाहरणमुचितमेव इति, तन्न, तथाहि-स्वराः काक्वादयः उदात्तादयो वा व्यायरूपमेव विशेषं प्रत्याययन्ति, न खलु प्रकृतोक्तमनेकार्थशम्दस्यैकार्थनियन्त्रणरूपं विशेषम्। किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभाषादनियन्त्रितयोरप्यर्थयोरनुरूप
इदं च मतं, केऽपि आचार्याः, चण्डीदासराघवानन्दप्रभृतय इति भावः । असहमाना: अमृण्यन्तः सन्तः, आहुः = कथयन्ति । काक्वादिरूपः = काकुप्रभृतिरूपः, स्वरः अपि, काव्ये कविकर्मणि, विशेषप्रतीतिकृदेव = विशेषज्ञानकर एव । उदात्तादिरूपोऽपि उदात्तप्रभृतिस्वरूपोऽपि, मुनेः भरतमुनेः, पाठोक्तदिशा = पठनप्रतिपादितदिशाया, यथाह मुनिर्भरतः="हास्यशृङ्गारयोः स्वरितोदात, वीररोद्राऽद्भुतेषु उदात्तकम्पितं, करुणबीभत्सभयानकेषु अनुदात्तकम्पितम् उत्पादयेत्” इति । शङ्गारादिरसविशेषप्रतोतिकृदेव = शृङ्गारादिरसभेदज्ञानकर एव । इति = अस्मात्कारणात् । एतद्विषये = स्वरविषये, उदाहरणं = दृष्टान्तप्रदर्शनम्, उचितम् एव = योग्यम् एव । मतमेतत् खण्डयति-तन्न इति । तेषां वचनमयुक्तम् । खण्डनप्रकारं प्रदर्शयति-तथाहोति । स्वराः = काक्वादिरूपा', कः कुर्नाम 'काकुः स्त्रियां विकारो यः शोकभीत्या. दिभिध्र्धनेः ।" इति कोशतः शोकभीत्यादिभिर्हेतुभिः ध्वनिविकारविशेषः । उदात्तादयो वा = उदात्तप्रभृतयो वा, व्यङ्गयरूपम् एव व्यवनावृत्तिप्रतिपाद्यरूपम् एव, विशेष= भेदं, प्रत्याययन्ति बोधयन्ति, प्रकृतोक्तम् । अस्मिन् प्रकरणे उक्तम्, “संयोगो विप्रयोगश्चे"त्यादिना भर्तृहरिणा उक्त = कथितम् ।
अनेकाऽर्थशब्दस्य = बह्वर्थपदस्य, एकाऽर्थनियन्त्रणरूपम् = एकाऽभिधेयनिय. मनरूपं, विशेष = भेदं, न खलु बोधयन्ति = न खलु प्रत्याययन्ति ।
किञ्च = पुनर्दूषयितुमुपक्रमते । यत्र = यस्मिन्, क्वचित् = कुत्रचित् स्थले, अनेकाऽर्थशब्दानां = बह्वर्थपदानां, प्रकरणादिनियमाऽभावात् = प्रस्तावादिनियमनाऽभागत, अनियन्त्रितयोरपि = अनियमितयोरपि, अर्थयोः = अभिधेययोः, अनुरूपस्वर
इस मतको न सहनेवाले कुछ आचार्यलोग (चण्डीदास और राघवानन्द आदि) कहते हैं- "काकु आदि कण्ठस्वर भी काव्यमें विशेष अर्थकी प्रतीति करता ही है । उदात्त आदि स्वर भी भरतमुनिके पाठमें कही हुई रीति से हास्य और शृङ्गारमें स्वरितोदात्त, वीर, रौद्र और अद्भुतमें उदात्तकम्पित तथा करुण, बीभत्स और भयानकमें अनुदात्तकम्पित स्वर करना चाहिए इस प्रकारसे स्वर शृङ्गार आदि रसविशेषकी प्रतीति करता ही है । इस कारणसे स्वरके विषयमें उदाहरण देना उचित ही है । यह ठीक नहीं हैं, जैसे कि काकु आदि वा उदात्त आदि स्वर, व्यङ्ग्यरूप विशेष अर्थको ही बोधन करते हैं न कि प्रकृतमें कहे गये अनेकार्थक शब्दका एकार्थी