________________
साहित्यदर्पणे
प्रय व्यञ्जनाविरताखभिधाद्यासु ययाऽर्थो वाध्यतेऽपरः ॥ १२ ॥
सा वृत्तिय॑ञ्जना नाम शब्दस्वार्थादिकस्य च । 'शब्दबद्धिकर्मणां विरम्य व्यापाराभावः' इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थ बोधयित्वोपक्षीणासु ययाऽन्योऽर्थों बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्व शक्तिय॑ञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
अथ क्रमप्राप्तां व्यञ्जना नाम वृत्ति निरूपयति विरतास्विति । अभिधाद्यासु विरतासु यथा अपरः अर्थः बोध्यते ।। १२ ॥
सा शब्दस्य अर्थादिकस्य च व्यञ्जना नाम वृत्तिरित्यन्वयः ।
अभिधाद्यासु = अभिधालांणातात्पर्यासु तिसृषु वत्तिषु, विरतासु = उपक्षीणासु सतीषु, यया = वृत्या, अपरः अन्यः, वाच्य-लक्ष्यतात्पर्याऽर्थभिन्न इत्यर्थः । व्यङ्गयत्वेन निरूपयिष्यमाणः वस्त्वलङ्काररसलक्षणः अर्थः, बोध्यते प्रतिपाद्यते, सा शब्दस्य अर्यादिकस्य च, आदिपदेन प्रकृतिप्रत्ययादेः परामर्शः । व्यञ्जना नाम वृत्तिः । व्यज्यते अर्थः अनया इति व्यञ्जना।
इत्यं च व्यञ्जना वृत्तिस्तावद् द्विविधा-शाग्दी प्रार्थो चेति । तत्र शाब्दया व्यञ्जनायाः पदधर्मत्वम्, आास्तु वाक्यधर्मत्वम् । विवृणोति-शवबुद्धिकर्मणामिति। शब्दबुद्धिकर्मणां = शब्दस्य ( घटादेः) बुद्धः ( ज्ञानस्य प्रत्यक्षादेः) कर्मणश्च, तेषां , विरम्य = स्वविषयमुपस्थाप्य विरामाऽनन्तरं, व्यापाराभावः पुनः स्वविषयोपस्थापनाऽभाव इति नयेन = न्यायेन, अभिधालक्षणातात्पर्याख्यासु-शक्तिभक्तितात्पर्यानाम्नीषु, उत्तिषु = शक्तिषु, स्वं स्वमर्थप्रातिस्विकं विषयं, बोधयित्वा प्रतिपाद्य, उपक्षीणासुपिरतासु, यया = वृत्या, अन्यः = अपरः अर्थः, बोध्यते = प्रतिपाद्यते, सा = शब्दस्य अर्यस्य, प्रकृतिप्रत्ययादेश्च वृत्तिः शक्तिः, व्यञ्जयध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जनादिव्यवहारविषया व्यञ्जना नाम ।
प्रथ व्यञ्जना अभिधा आदि वृत्तियोंके विरत होनेपर जिस वृत्तिसे अन्य अर्थका बोधन होता है ॥ १२॥
वह शब्दमें तथा अर्थ आदिमें रहनेवाली वृत्ति "व्यजना" कहलाती है। शम्देति । शब्द, बुद्धि (ज्ञान) और कर्म इनका अपने विषयको उपस्थापित कर विराम होनेके अनन्तर फिर अपने विषयका उपस्थापन नहीं होता है, इस नीतिसे अभिषा, लक्षणा और तात्पर्य नामकी तीन वृत्तियोंका बोधन कर उपक्षीण होने पर जिस वृत्तिसे