SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः विवृणोति-ता:= अनन्तरोक्ताः चत्वारिंशद्भदाः। तत्र पदगतत्वेन यथा"गङ्गायां घोष" इति । वाक्यगतत्वेन यथा-"उपकृतं बहु तो"ति । एवमशीतिप्रकारा लक्षणा । अशीतिप्रकाराया लक्षणायाः सोदाहरणं निदर्शन यथा:१ शुद्धा रूढिमती उपादानलक्षणा सारोपा=अश्वः श्वेतो धाति । २, रूढिमती उपादानलक्षणा साध्यवसाना = श्वेतो धावति । ३। रूढिमती लक्षणलक्षणा सारोपा=कलिङ्गः पुरुषो युध्यते । ४। रूढिमती लक्षणलक्षणा साध्यवसाना = कलिङ्गः साहसिकः । ५ गौणी रूढिमती उपादानलक्षणा सारोपा= एतानि तैलानि हेमन्ते सुखानि । , रूढिमती उपादानलक्षणा साध्यवसाना-तैलानि हेमन्ते सुखानि । ७, रूढिमती लक्षणलक्षणा सारोपा = राजा गौडेन्द्रं कण्टकं शोधयति । 4 रूढिमती लक्षणलक्षणा साध्यवसाना = राजा कण्टकं शोधयति । इमा प्रष्टौ रूढिमत्यो लक्षणाः १ शुद्धा प्रयोषनवती उपादानलक्षणा सारोपा = एते कुन्ताः प्रविशन्ति । २॥ प्रयोजनवती उपादानलक्षणा साध्यवसाना=कुन्ताः प्रविशन्ति । ३, प्रयोजनक्ती लक्षणलक्षणा सारोपा-आयुर्घतम्। ४, योजनबती लक्षणलक्षणा साध्यबसाना-मनायां घोषः। '५ गोणी प्रयोजनवती उपादामलक्षणा सारोषा = एते राजकुमारा गच्छन्ति । ६, प्रयोजनवती उपादानलक्षणा साध्यवसाना = राजकुमारा गच्छन्ति । ७, प्रयोजनवती लक्षणलक्षणा सारोपा = गोर्वाहीकः । ८, प्रयोजनवती लक्षणलक्षणा साध्यवसाना = गोल्पति। . इमा प्रष्टो प्रयोजनमत्यो लक्षणाः। इमा गूढ प्रयोजनाः ८,अगूढप्रयोजनाः ८,इत्यं संहत्य १६,भेदाः पुनः मिगतप्रयोजनवत्यः १६, धर्मगतप्रयोजनवत्यश्च १६,इत्यं संहत्य प्रयोजनवस्यो लक्षाणाः,वाशिवाः । रूढिमत्यो लक्षणा: अष्टो, प्रयोजनवत्यो द्वात्रिंशत, संहत्य लक्षणामेवाः चत्वारिंशत् । पुनश्च ता लक्षणाः पदगताः ४०, वाक्यगताध ४०, संहत्य लक्षणा अशीतिसंख्यका ज्ञातव्याः । काव्यप्रकाशकारमते तु लक्षणा षड्विधा । तत्र पूर्व शुद्धा गोणी चेति द्विविधा। शुद्धा-उपादानलक्षणा लक्षणलक्षणा चेति द्विविधा । ते द्विविधे अपि सारोपा साध्यवसाना चेति द्विविधे, इत्थं संहत्य शुद्धा लक्षणातुर्विधाः । नौणी तु सारोपा साध्यवसाना चेति द्विविधा । इत्थं संहत्य लक्षाणा: षट्प्रकागः । .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy