________________
द्वितीयः परिच्छेदः
दिलमात्रं यथा'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु, दृढं कठोरहृदयो रामोऽस्मि सर्व सहे
वैदेही तु कथं भविष्यति हहा ! हा देवि ! धीरा भव ॥'
दिङ्मात्रं = दिग्दर्शनमात्र, यथा। धमिधर्मगतफलयोरेकैकमुदाहरणं प्रदयंत इति भावः।
तत्र मिगतप्रयोजनवती लक्षणामुदाहरति-स्निग्धेति । स्निग्धश्यामलकान्तिलिप्तवियता वेल्लद्वलाका घनाः, शीकरिणो वाताः, पयोदसुहृदां कलाः मानदकेकाः । ( एते ) कामं सन्तु । दृढं कठोरहृदयः रामः अस्मि, सर्व सहे । तु वैदेही कथं भविष्यति हहा हा देवि ! धीरा भव इत्यन्वयः ।
वर्षावुपस्थिते सीताविप्रयुक्तस्य रामस्योक्तिरियम् । स्निग्धश्यामलकान्तिलिप्तवियतः = स्निग्धा ( सान्द्रा ) श्यामला (नीला ) या कान्तिः (शोभा ) तया लिप्तं (लेपनविषयीकृतं, लक्षणया व्याप्तम्) वियत् (आकाशम्) यस्ते । तथा वेल्लबलाका वेल्लन्त्यः ( चलन्त्यः ) बलाकाः (बिसकण्ठिकाः ) येषु, ते तादृशाः घनाः= मेघाः । शीकरिणः = जलकणयुक्ताः, शीतला इति भावः । तादृशा वाताः = वायवः, वान्तीति शेषः । पयोदसुहृदां पयोदाः ( मेघाः ), तेषां सुहृदाम् ( मयूराणाम् ), कलाः मधुराः आनन्दकेकाः = हर्षपरिपूरितानि कूजितानि । ( एते-पूर्वोक्ताः पदार्याः), मदनोद्दीपका इति भावः, कामं = पर्याप्तं यथा तथा, सन्तु = भवन्तु । दृढं बाढं यथा तथा, कठोरहृदयः = कठिनचित्तः, रामः = राघवः, दुःखसहनशील इति भावः । अस्मि=भवामि; सर्व = सकलं दुःखमिति शेषः । सहे = सहनं करोमि, । तु=परन्तु, वैदेही = सीता, कथं = केन प्रकारेण, भविष्यति भविता, उद्दीपकपदार्थानां सन्निधाने कथं स्थास्यतीति शेषः । हहा हा = हन्त हन्त !, हे देवि = हे जानकि ! धीरा-धर्यवती, भव । शार्दूलविक्रीडितं वृत्तम् ॥ भेदोंवाली हो जाती हैं । दिग्दर्शन करते हैं-सीताके विरही रामचन्द्रजीकी उक्ति है। चिकनी और श्याम - कान्तिसे आकाशका लेपन करनेवाले और बगलियां जिनके आस पास उड़ रही हैं ऐसे मेघ हैं । जलके कणोंसे सम्बद्ध हवाएं बह रही हैं । मेघके सुहर मयूरोंके हर्षपरिपूरित मधुर कूजित सुने जा रहे हैं। भले ही ये सब हों, मैं अतिकठोर. हृदय राम हूँ, सब सहता हूं, परन्तु सीता कसे सहेगी? हाय हाय ! हे देवि ! तुम धैर्य धारण करो॥