________________
साहित्यदर्पणे
गढाऽगढतया प्रत्येकं द्विधा भूत्वा षोडश भेदाः। तत्र गढः, कान्यार्थभावनापरिपकबुद्धिविभवमात्रवेद्यः। यथा-'उपकृतं बहु तत्र- इति। अगढः% अतिस्फुटतया सर्वजनसंवेद्यः । 'यथा
उपदिशति कामिनीनां यौवनमद एव ललितानि॥
अत्र 'उपदिशति' इत्यनेन 'आविष्करोति' इति लक्ष्यते । आविष्कारातिशयश्वाभिधेयवत्स्फुटं प्रतीयते ।
. धर्मिधर्मगतत्वेन फलस्यता अपि द्विधा । ___एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धमिगतत्वेन धर्मगतत्वेन च प्रत्येक द्विधा भूत्वा द्वात्रिंशभेदाः । गूढतया अगूढतया च, प्रत्येकं, द्विधा ८४२ = षोडश भेदाः । तत्र गूढः काव्याऽर्यभावनापरिष्कृतबुद्धिविभवमात्रवेद्यः = काव्याऽर्थस्य भावनया परिशीलनेन, परिष्कृतः परिष्कारयुक्तो यो बुद्धिविभवः घीसम्पत्तिः । तन्मात्रवेद्यः = तन्मात्रज्ञेयः, काव्याऽर्थपरिशीलनसूक्ष्मबुद्धिवेद्य इति भावः । गूढः = यथा-"उपकृतं बहु तत्रे"त्यादि: । अपकाराऽतिशयरूप प्रयोजनं काव्याऽर्थभावनापरिष्कृतबुद्धिविभवमात्रवेद्यम् । अगूढ अतिस्फुटतया ( अतिस्पष्टत्वेन ) सर्वजनसवेद्यः, यथा
__"उपदिशति कामिनीनां योवनमद एव ललितानि ।"
कामिनीनां = रमणीनां, यौवनमद एव-तारुण्यमद एव, ललितानि-शृिङ्गारचेष्टितानि, उपदिशति-उपदेशं करोति, अत्र अचेतनत्वेन यौवनमदस्योपदेशे तात्पर्याऽ. नुपपत्तेः "उपदिशति" इत्यनेन "आविष्करोति" इति लक्ष्यते = लक्षणया ज्ञाप्यते । -तत्र आविष्काराऽतिशयरूपं प्रयोजनं व्यङ्गय (व्यजनावृत्तिप्रतिपाद्यम्) तदपि अभिधेय. , वत्-शक्याऽर्थवत्, स्फुट-व्यक्तं, प्रतीयते व्यज्यते। अतोऽगूढव्यङ्गयस्योदाहरणम् । आभ्यामेव व्यङ्गयस्य गूढाऽगूढत्वाम्यां ध्वनिगुणीभूतव्यङ्गधनामको काव्यभेदो वक्ष्येते ।
पुनरपि प्रयोजनवत्या लक्षणाया वैविध्यं प्रतिपादयति-धमिधर्मगतत्वेनेति । एताः फलस्य धर्मिधर्मगतत्वेन अपि (पुनः) द्विधा इत्यन्वयः । विवृणोति-एता इति । एता:= अनन्तरोक्ताः, षोडशभेदा लक्षणा:, फलस्यप्रयोजनस्य, धमिधर्मगतत्वेन-धर्मी लक्ष्यः, धमः-लक्ष्यवृत्तिपदार्थः । मिगतत्वेन धर्मगतत्वेन अपि, प्रत्येक द्विधा भूत्वा द्वात्रिंशद्भदा:। रमणियोंके तारुण्य मदको हो शृङ्गारचेष्टाओंका उपदेश करते हैं । यहाँपर "उपदिशति" इस पदका "उपदेश करता है" यह वाच्यार्थ है, उपदेश करना चेतनका धर्म है यौवनमद अचेतन है अतः अनुपपत्ति होनेसे आविष्करोति आविष्कार ( प्रकट) करता है यह लक्ष्यार्थ हुआ । आविष्कारका आधिक्य वाच्याऽर्थके समान स्पष्ट रूपसे प्रतीत होता है। अब अन्य भेदोंको दिखलाते हैं। प्रयोजनके मिगत और धर्मगत होनेसे प्रयोजनवती -लक्षणाएं फिर से प्रकारकी होती हैं । इसप्रकार प्रयोजनवती लक्षणाएं १६ + १६=३२