________________
द्वितीयः परिच्छेदः
संकेतित्वात । न द्वितीयः। गोगवयचन्द्रमुखादिशब्दद्वन्द्वानामवयवप्रसादादिसाम्येऽप्यन्योन्यस्याऽन्यतमशब्दार्थाऽनभिधायकत्वात् । न तृतीयः । अविनाभावलभ्यस्यार्थस्य शान्देऽन्वये प्रवेशासंभवात शाब्दी ह्याकाङ्क्षा इति शेष: । ( ३ ) न प्रथमः = 'गोशब्दाद्वाहीकाऽर्थः प्रतीयते" इत्याकारकः प्रथमः पक्षो न । अत्र हेतु प्रदर्शयति-वाहो काऽर्थस्थाऽसंकेतितत्वात् । गोशब्दे वाहीकाऽर्थस्यासंकेताऽभावात् गोशब्दाद्वाहीकार्थो न प्रतीयते इति भावः । न द्वितीयः, "गोशब्देन लक्षिताद् गुणाद् गोणन्दादेव" इत्याकारकः बाहीकार्थः प्रतीयत इति पक्षोऽपि न, अत्र हेतुमुपन्यस्यति-गोगवयेत्यादिः । “गोर्गवयः" "मुखं चन्द्र" इत्यादिशब्दद्वन्द्वानां; लक्षणयाऽवयवप्रसादादिसाम्येऽपि = "गोर्गवय" इत्यादी गोगवयोरवयवसाम्येऽपि, तथा "मुखं चन्द्रः" इत्यादी प्रसादत्वस्य ( आह्लादकत्वस्य ) साम्येऽपि ( सादृश्येऽपि) अन्योन्यस्य = परस्परस्य, अन्यतमशब्दाऽर्थाऽनभिधायकत्वात् = समभिव्याहृतपदार्थाऽवाचकत्वात, अयं भावः । 'गोर्गवय" इत्यत्र लक्षणयाऽवयवसादृश्यरूपस्याऽर्थस्य प्रतीतावपि तथा "मुखं चन्द्र" इत्यत्र लक्षणया प्रसादत्वस्य ( आह्लादकत्वस्य ) साम्येऽपि, गोगवयोर्मुख चन्द्रयोश्च यर्थकस्यापरणब्दार्थाऽवाचकत्वं तथव प्रकृतेऽपि "गोर्वाहीक इत्यत्र लक्षणया गोपदाज नाड्यमान्द्यादिरूपस्याऽर्थस्य लक्षितत्वेऽपि एकस्याऽपरशब्दाऽर्थावाचकत्वमतो लक्षिताद् गुणादपि गोशब्दाद् बाहीकाऽर्थप्रतीतिर्नेति भावः । ।
न तृतीयः । अविनाभावाढाहीकाऽयंप्रतीतिरिति पक्षोऽपि नेति भावः । तत्र हेतुमाह-अविनाभावलभ्यस्य = व्याप्तिलभ्यस्य, अर्थस्य, शाब्दे = शब्दजन्ये, अन्वये3 संसर्गे, प्रवेशाऽसंभवात् = निवेशाऽसंभवाद, यतः शाब्दी = शब्दसम्बन्धिन्याकाङ्क्षा, शब्देनैव = न तु अविनाभावलभ्याऽर्थेन पूर्यते ।
__ मतमेतच्छन्दाऽव्याहारवादिनां नैयायिकानाम् । अर्याऽव्याहारवादिनां मीमांसकानां मते तु अविनभावलभ्यस्याऽप्यर्थस्य शाब्दबोधविषयत्वाऽङ्गीकारानंतदूषणम् ।
द्वितीयं पक्षं खण्डयति-न द्वितीय इति । गोशब्दाद्वाहीकाऽर्थो न प्रतीयत इति पक्षः । यदि हि अत्र गोशब्दात् बाहीकार्थो न प्रतीयेत = न ज्ञायेत, तदा = तहि
- न कि गुणी . बाहीक भी, खण्डन करते हैं इसे भी अन्य विद्वान् नहीं मानते हैं । जैसे कि- "गोर्वाहीकः" यहाँपर गो शब्दसे बाहीक अर्थ प्रतीत होता है ? वा प्रतीत नहीं होता है ? पहले पक्षमें ( गो शब्दसे बाहीक अर्थ प्रतीत होता है तो गो शब्दसे ही प्रतीत होता है (१) वा गो शब्दसे लक्षित जाडय मान्द्य आदि गुणोंसे प्रतीत होता है (२) अथवा अविनाभाव ( व्याप्ति ) से प्रतीत होता है ( ३ ) इनमें पहला पक्ष-गो शब्दसे ही वाहीक अर्थ प्रतीत होता है, यह ठीक नहीं है, क्योंकि गो शब्दका वाहीक अर्थमें जब सङ्केत ही नहीं हैं तो कैसे उससे वाहीक अर्थकी प्रतीति होगी? । दूसरा पक्ष-गो शब्दसे लक्षित जाडय आदि गुणोंसे वाहीक अर्थकी प्रतीति होती