________________
साहित्यदर्पणे
अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात्।। . अन्ये च पुनर्गाशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारि. गुणसाजात्येन वाहीकार्थगता. गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाहि-अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, नवा ? आये गोशब्दादेव वा ? लक्षिताद्वा गुणात् ? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थस्याअभिधायाः शक्ते, विरतत्वात विश्रान्तत्वात्, विरतायाश्च विश्रान्तायाश्च अभिधायाः "शब्दबुद्धिकर्मणां विरम्य व्यापाराऽभावः” इति न्यायेन पुनरुत्थानाऽभावात्-पुनरागम. नाऽभावादिति भावः । अतः अभिवाऽन्तरकल्पने गौरवमित्याशयः । श्लेषादौ तु युगपदनेकाऽर्थाऽभिधानं स्वीक्रियते, अत्राऽपि तथाकरणे लक्षणाया निरर्षकत्वादिति भावः । मतान्तरमाह-प्रन्ये च पुनरिति । अन्ये च = अपरे च आचार्याः, पुनः गोशब्देन = गोपदेन, बाहीकाऽर्थः = बाहीकरूपाऽर्थः, न अभिधीयते = अभिधावृत्या न प्रतिपाद्यते, गोपदेन संकेतेन गोपदार्थ एवं प्रतिपाद्यते । किन्तु स्वाऽर्थसहचारिगुणसाजात्येन-स्वाऽर्थो गोत्वं, तत्सहचारिगुणाः = गोसहचरणशीलगुणाः . जाडघम न्द्यादयः, तेषां साजात्येन = सजातीयतासम्बन्धेन, बाहीकार्थगता गुणा एव = जाडयमान्यादय एव, अत्र एवकारेण गृणिनो व्यावृत्तिः । लक्ष्यन्ते लक्षणया बोध्यन्ते । अस्मिन्मते गोशब्देन पूर्वमताऽनुसारेण बाहीकार्थोभिधया न प्रतिपाद्यते किन्तु गोसहचारिगुणसाजात्येन बाहीकार्यगता जाडय. मान्द्यादयो गुणा एव लक्षणया बोध्यन्त इति भावः । - तदपि = तन्मतमपि, अन्ये = आचार्याः, न मन्यन्ते = न स्वीकुर्वन्ति । तत्र हेतुमाह-यथेति । तथाहि अत्र = "गोर्वाहीक" इत्यत्र । गोशब्दात्, वाहीकार्थः = वाहीकरूपार्थः, प्रतीयते = ज्ञायते, न वा = न प्रतीयते वा, न ज्ञायते वा। आद्य = प्रथमपक्षे प्रतीतिपक्षे, गोशब्दात् एव वा (१), लक्षिता लक्षणावृत्या प्रतिपादितात, गुणात = स्वनिष्ठ जाडयमान्याद्वा (२), अविनाभावाद्वा=व्याप्तेर्वा प्रतीयते वाहीकाऽर्थ अभिधावृत्तिसे वाहीक अर्थका प्रतिपादन करने में प्रवृत्ति निमित्त होते हैं यह कुछ विद्वानों का कहना है।
इसका खण्डन करते है। यह अनुचित है। सङ्केतग्रहण किये बिना गोशब्द वाहीक अर्थका प्रतिपादन नहीं कर सकता है । केवल गो अर्थका प्रतिपादन करता है।
गोरूप अर्थमात्रका बोधन कर अभिधा विरत हो जाती है, "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इस नियमके अनुसार विरत अभिधाका फिर उत्थान नहीं हो सकता है।
अन्ये ति अन्य विद्वान् ऐसा कहते हैं-पोशब्दसे बाहीक अर्थ अभिधासे प्रतिपादित नहीं होता है, किन्तु स्वाऽर्थ-गोत्व उसके सहचारिगुण जाडघमान्य आदिके साजात्य-सजातीयता सम्बन्धसे अर्थात् सादृश्यसे बाहीक अर्थ में रहने वाले जाडच मान्य आदि गुणोंकी ही लक्षणा होती है । (जाड्य मांब आदि गुण ही लक्षित होते हैं ).।