________________
साहित्यदर्पणे
-
सादृश्येतरसंवन्धाः शुद्धास्ताः सकला अपि ।
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ॥ ९॥ ताः पूर्वोक्ता अष्टभेदा लक्षणाः। सादृश्येतरसंबन्धाः कार्यकारणभावादयः। अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सारोपा गौणी यथा-'एतानि तैलानि हेमन्ते सुखानि' । अत्र तेलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायव सार्षपादिषु स्नेहेषु वर्तते । प्रयोजने यथासम्बन्धा इति । सादृश्येतरसम्बन्धाः ताः सकला अपि शुद्धाः सादृश्यात्तु गोण्यो मताः, तेन षोडश भेदिता इत्यन्वयः ।
सादृश्येतरसम्बन्धाः = सादृश्यात् इतरे ( भिन्नाः ), कार्यकारणभावादिरूपाः सम्बन्धा आसां, ताः = पूर्वोक्ता अष्टभेदा लक्षणा:, सकला अपि = संपूर्णा अपि, शुद्धाः परिभाषिताः॥९॥
सादृश्यात्तु गोण्ये लक्षणाः, मताः = अभिमताः, तेन कारणेन, षोडशभेदिता:षोडशसंख्यकत्वेन भेदयुक्ताः । शुद्धाः = कार्यकारणभावादिरूपाः, गोण्यः = गुणयोगादिति भावः । गुणात् आगता गोण्यः, "तत आगतः" इत्यण 'टिड्ढाणन्" इत्यादिना डीप् ।
विवृणोति-सादृश्येतरसम्बन्धाः कार्यकारणभावादयः । तत्र शुद्धानां लक्षणानां पूर्वोदाहरणान्येव "अश्व: श्वेतो धावती"त्यादीनि । गोण्यो लक्षणाः प्रदर्श्यन्ते ।
.. तत्र रूढी उपादानलक्षणा सारोपा गौणी यथा "एतानि तैलानि हेमन्ते सुखामि" तिलानां विकारास्तैलानि, "तस्य विकार" इत्यण् । अत्र अस्मिन् उदाहरणे, तेलशब्दः, तिलभवस्नेहरूपं, मुख्यायं = शक्याऽर्थम्, उपादाय एव = गृहीत्वा एव, सार्षपाऽऽदिस्नेहेषु = सर्षपविकारादिस्नेहमात्रेषु लक्ष्याऽर्थेषु वर्तते । अत्र सर्षपादिस्नेहाना
अब लक्षणाके शुद्धा और गौणी इन दो भेदोंको दिखलाते हैं । सादृश्यसे भिन्न सम्बन्धोंवाली पहले बतलाई गई सब लक्षणाएँ "शुद्धा" कही जाती है ।। ९॥
__ सादृश्यसे "गोणी" लक्षणाएं होती हैं, गुणके योगसे "गोणी" लक्षणा होती है। इस प्रकार शुद्धाके आठ और गोणीके आठ कुल सोलह भेद हो जाते हैं ।
सादृश्यसे भिन्न सम्बन्ध कार्यकारणभाव आदि होते हैं। शुद्धा लक्षणाओंके आठ भेद पहले के उदाहरण ही हैं ।
१. रूढिमती उपादानलक्षणा सारोपा गौणी-"एतानि तैलानि हेमन्ते सुखानि" यहाँपर तेल शब्दका मुख्य अर्थ तिलसे उत्पन्न स्नेह है उसीको लेकर सादृश्यसे सरसों मादिके स्नेहको भी "तेल" कहते हैं।
२. प्रयोजनवती उपादानलक्षणा सारोपा गौणी-राजकुमार और उनके सदृश