________________
४६
साहित्यदपणे
यथा वा'उपकृतं बहु तत्र किमुच्यते, सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे ! सुखितमारस्व ततः शरदां शतम् ।।'
अत्रापारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमपयन्ति। अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमपकारातिशयः । इयमेव जहत्स्वार्थत्युच्यते । भावः । वाक्याऽर्थे, अन्वयसिद्धये = संसर्गनिहाय, कलिङ्गगङ्गादिशब्दौ = मुख्याऽौं, आत्मानं = स्वस्वार्थमर्पयतः = समर्पयतः ।
उदाहरणान्तरं प्रदर्शयति---उपकृतमिति । सखे | भवता बहु उपकृतं सुजनता परं प्रथिता । तत्र किम् उच्यते ? ईदृशम् एव सदा विदधत् ततः शरदां शत सुखितम् आस्त्वेत्यन्वयः । __कंचिदपकारिणं प्रति कस्य चित्पीडितस्योक्तिरियम् । हे सखे ! = हे मित्र !, भवता-त्वया, बहु-अधिकम्, उपकृतम्--उपकारः कृत इति भावः, एवं च सुजनता = सौजन्यं, परम् = अत्यन्तं, प्रथिता = प्रकाशिता । तत्र तयोः त्वदुपकारसौजन्ययोविषय इति भावः । किम्, उच्यते = अभिधीयते, ईदृशम् एव = एतादृशम् एव उपकरण. सौजन्यप्रकाशनम् एव, सदासर्वदा, विदधत् = कुर्वन्, ततः = तदनन्तरं, शरदां-शतवर्षशतं यावत्, सुखित = सुखयुक्तं यथा तथा, आस्व = तिष्ठ, इत्थं मुख्योऽर्थः ।
अत्र = अस्मिन्पद्य, अपकारादीनाम् = अपकारदुर्जनताशत्रुदुःखितानां पदानां, वाक्याऽर्थे अन्वयसिद्धये - संसर्गनिर्वाहाय, उपकृतादयः = उपकृतसुजनतासखिसुखित. रूपाः शब्दाः = पदानि, आत्मानं स्वम्, अर्पयन्ति = परित्यजन्ति, ततश्च उपकृतम् इत्यस्य लक्ष्याऽर्थः "अपकृतम्" "सुजनता" इत्यस्य "दुर्जनता", "सखे" इत्यस्य "शत्रो" "सुखितम्" इत्यस्य दुःखितम् इति यथास्वं लक्ष्याऽर्था बोद्धव्याः ।
___ अपकारिणं प्रति = अपकारकारिणं प्रति = उपकारादिप्रतिपादनात् = उपकारादिशब्दप्रयोगात, मुख्याऽर्थबाधः = शक्याऽर्थबाध:, लक्षणाया हेतुविशेषः, वैपरीत्य. लक्षाणः = वैपरीत्यस्वरूपः, सम्बन्धः, फलम्, अपकाराऽतिशयः = अपकृत्यधिकता लक्षणायाः प्रयोजनमिति भावः । इयम् एव = लक्षाणलक्षाणा एव, "जहत्स्वार्था" इत्युच्यते । अस्या नामान्तरं जहल्लक्षणाऽपि । जहत् = परित्यजन्, स्वाऽर्थः = मुख्याऽर्थो याम् इति बहुव्रीहिसमासः । "गङ्गायां घोषः"। इन दोनोंमें क्रमसे वाक्यार्थमें पुरुष और तटके अन्वयकी सिद्धि के लिए "कलिङ्ग” और गङ्गा शब्द अपने मुख्यार्थका समर्पण करते हैं।
.. अथवा-उपकृतम्० अपकारीको कोई कहता है-- "हे मित्र ! आपने बहुत उपकार किया है, क्या कहना है आपने अत्यन्त सौजन्यका विस्तार किया है। आप ऐने