SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे रूढावुपादानलक्षणा यथा-'श्वेतो धावति'। प्रयाजने यथा-'कुन्ताः प्रविशन्ति' । अनमोहिं श्वेतादिभिः कुन्तादिभिश्चाचेनितया केवलर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतसिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषादयश्चाक्षिष्यन्ते । पूर्वत्र प्रयोजनाभावादिः , उत्तरत्र तु कुन्तादीनाच्चारितपदसमूहे, अन्वयसिद्धये = संसर्गनिर्वाहाय, इतराऽऽक्षोपः = इतरस्य ( मुख्याऽर्थभिन्नाऽर्थस्य ) आक्षेपः = प्रत्यायनम्, तत्र च आत्मनः अपि = मुख्याऽर्थस्य अपि, उपादानात् = ग्रहणात्, एषा = इयम् उगदानलक्षणा ।। ६ ॥ उदाहरति-रूढाविति । अनयोः = "श्वेतो धायति" "कुन्ताः प्रदिशान्ति" एतयोः । अचेतनतया = जडत्वेन, वस्तुतस्तु = गुणत्वेन अचेतनत्वेन, केवलैः = श्वेतत्व. कुन्तत्वविशिष्टः, धावनप्रवेशनक्रिययोः = शीघ्रगमनप्रवेशकरणकर्मणोः, कर्तृतया = व्यापाराश्रयत्वेन, अन्वयं = क्रियापदसंसर्गम्, अलभमानः = अप्राप्नुवाद्भ., एतल्लिद्धये = धावनप्रवेशनकर्तृत्वाऽन्वयनिर्वाहाय, आत्मसम्बन्धितः - श्वेतकुन्तसम्बन्धयुक्ताः, श्वेतगुणसमवायिनः कुन्तसंयोगिन इति यथायथं बोध्याः । अश्वादर: पुरुषादयश्र आक्षि. प्यन्ते = प्रत्याय्यन्ते । अयं भावः, श्वेतो धावति इत्यत्र श्वेतपाय गुणवाचकत्वात्तस्य धावन क्रियाया कर्तृत्वेन अन्वयाऽपपत्ते' कर्तृत्वाऽन्वयनिर्वाहाय मवायसम्बन्धेन श्वेतगुणयुक्तोऽश्वः आक्षिप्यते । अत्र प्रयोजनामावाढिः । वैयाकरणमते तु अत्र लक्षणा नाऽऽवश्यकी। श्वेतः ( गुणः ) अस्यास्तीति ज्वेत:, श्वेतशात "रसादिभ्यश्चे"ति सूत्रेण मतुप्प्रत्ययः, तस्य च "गुणवचनेभ्यो मतुपो लुगिष्टः” इति वार्तिकेन लुकि सति श्वेत इत्यस्य श्वेतगुणयुक्त इत्यर्थो भवति, ततश्व शक्तिग्रहः हेतुभूताद्वचारणाद, "गुणे शक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" इति कोशाच्चं "श्वेत' इत्यस्य श्वेतगुणयुक्त इति शक्यार्थः, तस्य धास्तीत्यत्र अन्वयोपपत्तिः, ततश्चाऽत्र लक्षणा नेष्य । परं नैयायिका आलङ्कारिकाश्च "श्वेतो धावति" इत्यत्र प्राथमिकोपस्थितिविषयता श्वेतगुणस्यैव प्रतिपत्तिः, तस्य च धावनक्रियायामन्वयाऽनुपपत्तेः, लक्षणाया गुणिनोऽश्वादेः प्रतीतिरिति वदन्ति । जाँ अन्य अर्थका आक्षेप होता है वहाँपर मुख्य अर्थका भी ग्रहण होनेसे उसे "उपादानलक्षणा" कहते हैं ।। ६॥ __रूढिमें उपादानलक्षणा जैसे-'श्वेतो धावति" ( सफेद दौड़ रहा है)। प्रयोजनमें उपादान लक्षणा जैसे-कुन्ताः प्रविशन्ति (भाले प्रवेश कर रहे हैं। ) इन दो उदाहरणोंमें "श्वेतो धावति" यहाँपर केवल श्वेत आदि और "कुन्ताः प्रविशन्ति" . यहाँपर केवल कुन्त आदि अचेतन ( जड़) होनेसे धावन और प्रवेशन क्रिया कर्ता होकर अन्वित नहीं हो सकते हैं अतः अन्वयकी सिद्धि के लिए श्वेत वर्णवाले अश्व आदिका और कुन्तके धारण करनेवाले पुरुष आदिका आक्षेप करते हैं । "वेतो
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy