________________
साहित्यदर्पणे
केचित्त 'कर्मण कुशल:' इति रूढावुदाहरन्ति । तेषामयमभिप्रायः -- कुशाँल्लातीति व्युत्पत्तिलभ्यः कुशप्रतिरूपो मुख्योऽर्थः प्रकृतेऽसंभवन् विवेचकत्वादिसाधम्यसम्बन्धसम्बन्धिनं दक्षरूपमथं बोधयति । तदन्ये न मन्यन्ते । कुशप्रा हिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यंव मुख्यार्थत्वात् । अन्यद्धि हेत्वभावात् नेयाऽभिधानां दाषः, स च सप्तमे परिच्छेदे वक्ष्यते, अत उक्त—“रूढेः प्रयोजनाद्वाऽसो" इति ।
४२
अथ काव्यप्रकाशकारस्य रूढिमत्या लक्षणाया उदाहरणं दूषयति- केचित्विति । केचित् = काव्यप्रकाशकारादयः । " कर्मणि कुशल" इति रूढो उदाहरन्ति । तेषां = काव्यप्रकाश काराणाम्, अयम्, अभिप्राय: = आशय: - "कुशल" इत्यत्र "कुशं लाति” ( आदत्ते ) इति "आतोऽनुपसर्गे कः" इति सूत्रेण कप्रत्ययेन निष्पन्नस्य कुशलशब्दस्य व्युत्पत्तिलभ्यः = अवयवाऽर्थप्राप्यः, कुशग्राहिरूपः = कुशग्राहकरूपः, मुख्यः = शक्यः, अर्थः, प्रकृते = प्रस्तुतकर्मपदान्वये, असंभवन् = योग्यतामलभमानः, विवेचकत्वा दिसाधर्म्य सम्बन्धसम्बन्धिनं विवेचकत्वादि ( दुर्वातृणादिपरिहारकत्वरूपं यद्विवेचनः बतृत्वम् ) यत् साधर्म्यं ( समानधर्मवत्त्वम् ) तद्रूपो यः सम्बन्ध: तेन सम्बन्धिनं ( सम्बद्धम् ) दशरूपं निपुणरूपम्, अर्थ बोधयति लक्षणया प्रतिपादयति = अयं भाव:, ' कर्मणि कुशल” इत्यत्र कुशलपदस्य कुशग्राहकस्वरूपो व्युत्पत्ति लभ्यो यो मुख्यार्थ: सः "कर्मणी' त्यत्र अन्वयम् अलभमानः लक्षाणया कुशग्रहणे दुर्लातृणादिपरिहारकत्वरूपं द्विवेचकत्वं तत्साधर्म्यसम्बन्धेन सम्बन्धिनं कर्मणि दक्षरूपमर्थं प्रत्याययति ।
पूर्वोक्तं काव्यप्रकाशका रमतं दूषयति - तदन्य इति । तत् = मतम्, अन्ये = आचार्याः अत्र विश्वनाथ कविराजस्यापि परिग्रहः । न मन्यन्ते = न स्वीकुर्वन्ति । तत्र हेतुमुपपादयति- कुशेति । कुशाग्रा हिरूपाऽर्थस्य = कुशग्राहकरूपवाच्यम्य, व्युत्पत्तिलभ्यत्वेऽपि=प्रकृतिप्रत्यग्बधप्राप्यत्वेऽपि दक्षरूपस्यैव, मुख्यार्थत्वात् = शक्याऽर्थत्वात् अतो मुख्यार्थबाधाभावात् कथं लक्षणेति भावः । हेत्वन्तराम्युपन्यस्यति - प्रन्यद्धीति । शब्दाना = पदानां व्युत्पत्ति निमित्त = व्युत्पत्तेः ( अवयवा प्रतीतेः ) निमित्तम् ( कारणम् ), व्युत्पत्ति लभ्याऽर्थप्रतीतो प्रकारीभूतो धर्मों व्युत्पत्तिनिमित्तं यथा गोशब्दस्य शीतलत्व और पावनत्व के आधिक्यका बोध करना प्रयोजन है। हेतुके विना जिस किसी भी सम्बन्धी = मुख्य अर्थ के सम्बन्ध से युक्तकी लक्षणा करेंगे तो अतिप्रसङ्ग ( अव्यः प्ति ) होगा इसलिए कहा है- "रूढे: प्रयोजनाद्वाऽसौ " कुछलोग काव्यप्रकाशकार ) कर्मणि कुशल:" इसको रूढिमती लक्ष्णाका उदाहरण बताते हैं । उनका यह अभिप्राय है, ' कुशान् लाति” अर्थात् कुशोंको लाता है, इसमें कुशल पदका व्युत्पत्ति से लभ्य कुशग्राहकत्व रूप मुख्य अर्थ यहाँपर अनुपपन्न होता हुआ विवेचकत्व ( दूर्वा तृण आदिका परिहारकत्वरूप ) आदि साधर्म्य सम्बन्धसे सम्बद्ध दक्ष ( निपुण ) रूप अर्थका बोधन
i