________________
साहित्यदर्पणे
धर्मः । शुक्लादयो हि गवादिकं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति ! द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः । क्रियाः साध्यरूप वस्तुधर्माः पाकादयः । एषु हि अधिश्रयगावैश्रयणान्तादिपूर्वापरीभूतो
३८
=
नित्या सती या अनेकासु गवादिव्यक्तिषु समवायसम्बन्धेन वर्तते सा जातिरिति भावः । जातिमुदाहरति-जातिरिति । गोपिण्डादिषु = व्यक्तिषु विद्यमाना गोत्वादिका जातिः । गुणं लक्षयति- विशेषाधानहेतुत्वे सति सिद्ध वस्तुधर्मत्वं ( द्रव्यधर्मत्वम् ) गुणत्वम् । शुक्लत्वादिविशेषाधानहेतु: सिद्ध: ( निष्पन्न:, न तु साध्य: ) क्रियारूप: वस्तुधर्मः द्रव्यधर्मः गुण इति भावः । विशेषाधीन हेतुरित्यनेन जातेर्व्यावृत्तिः । गुणं विवृणोति - शुक्लादयो हीति । शुक्लादयः = गुणाः, गवादिकं = वस्तु, सजातीयेभ्य: = समानजातीयेभ्यः, कृष्णगवादिभ्यः, व्यावर्तयन्ति = व्यवच्छिन्दन्ति । सङ्केतग्रहस्थानं द्रव्यं विवृणोति -- द्रव्यशब्दा इति । एकव्यक्तिवाचिनः = एकव्यक्तिवाचकाः, हरिहरडित्थविरथादयो द्रव्यशब्दा 'यदृच्छाशब्दा वा उच्यन्ते । क्रियां विवृणोति - वस्तुधर्माः द्रव्यधर्माः, साध्यरूपाः = जन्यस्वभावाः, पाकादयः क्रियाः । एषु = साध्यरूपवस्तुधर्मेषु, पाकादिष्विति भाव: । अधिश्श्रयणाऽव श्रयणान्तादिपूर्वापरीभूतः = अधिश्रयणम् ( चुल्ल्यां पाल्या आरोपणम् ) अवश्रयणम् (चुल्ल्या: स्थाल्या अवरोपणम्), अधिश्रयणावश्रयणे ( द्वन्द्वः ) । आदिश्व अन्तश्च अन्तादी ( द्वन्द्व ), "राजदन्तादिषु परम्" इत्यनेन अन्तपदस्य पूर्वनिपातः । अधिश्रयणावश्रयणे अन्तादी यस्य सः, "अनेकमभ्यपदार्थों" इति बहुव्रीहिः । पूर्वश्च अपरश्च पूर्वापरी (द्वन्द्वः) । अपूर्वापरी पूर्वापरो यथा सम्पद्यते तथाभूतः पूर्वापरीभूतः । अधिचरणाऽवश्रयणान्तादिश्चाऽसौ पूर्वापरीभूतः (कर्मधारय.) । 'अयं भावः । अधिश्रयणम् आदिभूतः, श्रवश्रयणम् अन्तभूतः एतादृशो यो व्यापारकलापः = क्रियासमूहः स पाकादिशब्दवाच्य क्रियाशब्द इत्यर्थः । अत्र मुख्यो धात्वर्थंस्तु फलं, यथाsत्र पचेवि क्लित्तिः । अत्र पूर्वः अधिश्रयणादिः, अपरः अवश्रयणादिः, तौ च पाकक्रियाऽवयवरूप, तत्र पूर्वस्य परं प्रति साधनत्वम्, अपरस्य पूर्वं प्रति साध्यत्वम् अस्ति ।
1
=
'गो' आदि व्यक्ति में रहनेवाले गोत्व आदि धर्मको "जाति" कहते हैं । विशेष अर्थके आधानके हेतुभूत सिद्ध वस्तुधर्मको "गुण" कहते हैं। जैसे कि शुक्ल आदि गुण गौ आदि व्यक्तिको सभातीय कृष्णं गौ आदिसे अलग करते हैं । अतः शुक्ल नील आदि वस्तुके सिद्ध धर्म गुण है। एक व्यक्तिके वाचक हरि, हर, डित्थ और share आदि द्रव्यशब्द हैं। इनसे एक ही व्यक्तिका बोध होता है । साध्यरूप पाक आदि वस्तुanni "क्रिया" कहते हैं । इन साध्यरूप वस्तुधमोंमें चूल्हेपर चढ़ाना, पीछे उतारना इत्यादि पूर्व और अपर सम्पूर्ण क्रियासमूहको "पाक" आदि शब्द कहते हैं । व्यक्तिकी इन चार उपाधियोंमें संकेत ( शक्ति) का ग्रहण होता है न कि व्यक्ति । यदि सकल व्यक्तियोंमें सङ्केतग्रह होगा तो व्यक्तियोंके आनन्त्यसे आनन्त्य