SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे - -- - - पद्यते, अनन्तरं च 'गां बधान' 'अश्वमानय' इत्यादावावापोद्वापाभ्यां गोशब्दस्य 'सास्नादिमानर्थः' आनयनपदस्य च 'आहरणमर्थः' इति संकेतमवधारयति । कचिञ्च प्रसिद्रपदसमभिव्याहारात, यथा--'इह प्रभित्रकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र । कचिदाप्तोपदेशात् , यथा-'अयमश्वशब्दवाच्यः' इत्यत्र । तं च तस्केतितम) बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम। इति = एवं, प्रथमं = प्रतिपदक्तिग्रहात्पूर्व, प्रतिपद्यते = अनुमानेन बुध्यते । अनन्तरं च = अखण्डवाक्यज्ञानस्य पश्चादिति भावः । “गा बधान, अश्वमानय” इत्यादीउक्ते सति, आवापोद्वापाभ्याम् = अन्वव्यतिरेकाभ्याम् । तत्सत्त्वे तत्सत्त्वम् अन्वयः, तदभावे तदभावो व्यतिरेकः । गोशब्दस्येति । गोशब्दसत्त्वे सास्नादिमत्पदार्थबोधसत्त्वम्, इत्यन्वयः । आनय शब्दाऽभावे बानयनपदार्थबोधाभावः इति व्यतिरेकः । गां बधान = गोशब्दसत्त्वे सास्नादिमत्पदार्थबोधसत्त्वम्, इति अन्वयः । बधानेति शब्दाऽभावे बन्धन. पदार्थबोधाऽभावः इति व्यतिरेकः ।। "अश्वम् आनय" इत्यत्र अश्व राब्दसत्त्वे पृच्छाऽऽदिमत्पदार्थबोधसत्त्वम्, इत्यन्वयः। "आनये"तिशब्दासस्वे आहरणपदार्थबोधाऽभाव इति व्यतिरेकः । इति सङ्केतं = शक्तिम्, अवधारयतिनिश्चिनोति । सङ्केतग्रहस्य प्रकारान्तरं प्रदर्शयति-- क्वचिच्चेति । क्वचिच्च = कुचिच्च । प्रसिद्धपदसमभिव्याहारात् = प्रसिद्धस्य ( गृहीतसङ्केतस्य ), पदस्य ( शब्दस्य ) सम. भिव्याहारात् ( समीपोच्चारणात् ), यथा-इहेति । मधुकरपदशक्ति ज्ञान रहितस्य पुरुषस्य इह = अस्मिन्, प्रभिन्नकमलोदरे = विकसितकमलमध्ये, मधुकरः, मधूनि = पुष्परसान् पिबति = धयति । अस्मिन् वाक्ये इहेत्यादीनां गृहीतशक्तिकानां पदानां समीपोच्चारणात् व्युत्पित्सुः पुरुषो मधुकरपदस्य भ्रमरे शक्तिम् अवधारयति । सङ्केतग्रहस्य अन्य प्रकार निदर्शयति-क्वचिदिति । क्वचित् = कुत्रचित, आप्तोपदेशात-आप्तस्य (यथार्थवक्तः) उपदेशात् (शिक्षणात् ) शक्तिम अवधारयति इति शेषः । रागादिवशादपि यो नाऽन्यथावादी स आप्त इति चरके पतञ्चलिः । उदाहरति-अयम् अश्वशब्दवाच्यः अयं भावः-अश्व शब्दस्य शक्ति ग्रहाऽभाववान पुरुषः, कस्मिश्चिन्मांसपिण्डे -"अयमश्वशब्दवाच्य” इति आप्तोपदेशेन शक्तिमवधारयति । ...... ग्रन्थकारेणाऽनुक्ता अन्येऽपि शक्तिग्रहप्रकाराः पूर्वनिर्शितपद्याऽनुसारेण प्रदर्श्यन्ते । कहींपर प्रसिद्ध अर्थवाले पदके समीप उच्चारणसे शक्ति ग्रह होता है । जैसे"इस विकसित कमलके बीच में बैठकर मधुकर शहद पी रहा है" यहाँ पर प्रसिद्धार्थ पद कमलके समीपोच्चारणसे मधुकर पदका भ्रमरमें शक्ति ग्रह होता है । कहीं पर आप्त: (यथार्थ वक्ता) के उपदेशसे शक्ति ग्रह होता है। जैसे यह अश्व शब्दसे कहा जाता है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy