SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । ता अभिधाद्याः। तत्र संकेतितार्थस्य बोधनादप्रिमाभिधा । उत्तमपद्धन मध्यमवृद्धमुद्दिश्य 'गामानय' इत्युक्त तं गवानयनप्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य 'सास्नादिमत्पिण्डानयनमर्थः' इति प्रथमं प्रति अभिधां निरूपयति-तत्रेति । तत्र अभिधाऽऽदिषु मध्ये । सङ्केतिताऽर्थस्य = मुख्याऽर्थस्य, बोधनात् = बोधजननात्, अग्रिमा = आदिमा, शक्तिः, अभिधा = अभिधाऽऽख्या। अयं भावः । इदं पदममुमर्थ बोधयतु इति, अस्मात्पदादयमों बोद्धव्य इति वा इच्छा सङ्केतः, स संजातः अस्य सङ्केतितः स चाऽसौ अर्थः मुख्योऽर्थः, तद्बोधयित्री अभिधेति भावः। अत्र मुख्यत्वं च लक्ष्यव्यङ्गयाऽर्थाऽपेक्षया प्रथमोपस्थितिविषयत्वं वोध्यम् । तत्र इदं पमित्यत्र इदं पदमेतदर्थविषयकबोधजनकं भवतु इति । अस्मात् इत्यादेरर्थस्तु अयमर्थ एतत्पदजन्यबोधविषयतावान् भवतु इति । इत्यं च सङ्केतिताऽयं. बोधजनकवृत्तित्वमभिधात्वमिति लक्षणं पर्यवसन्नम् । पुरात विद्भिः सङ्केतग्रहोपायाः प्रदर्शिताः, ते यथा"शक्तिग्रहं व्याकरणोपमानकोशाऽऽस्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥" व्याकरणात्, उपमानात, कोशाद, आप्तवाक्यात, व्यवहारात्, वाक्यशेषात्, विवृतेः सिद्धपदस्य सान्निध्याच्च इत्थं प्रकाराष्टकात् वृद्धाः शक्तिग्रहं वदन्ति । अत्र प्रकारत्रयं प्रदशितं विश्वनाथकविराजेन । तत्रादी व्यवहाराच्छक्तिग्रहं प्रदर्शयति-उत्तमवद्धनेति। उत्तमवृद्धेन = संकेतग्रहवता प्रयोजकेन, मध्यमवृक्ष = प्रयोज्यम्, उद्दिश्य = अनूध, “गाम् आनय" इत्युक्ते, तं = प्रयोज्यवृद्धं, गवानयनप्रवृत्तं = धेन्वानयनतत्परम्, उपलभ्य = अनुमाय, गवानयनक्रिययेति शेषः । बाल: = संकेतग्रहाऽभाववान् माणवकः, अस्य = पूर्वोक्तस्य, वाक्यस्य = पदसमूहस्य, “गाम् आनये"त्याकारकस्येति भावः । सास्नादिमत्पिण्डानयनं = गलकम्बललागूलादिमज्जन्त्वानयनम्, अर्थः = अभिधेयः, उनमें सङ्केतित ( मुख्य ) अर्थका बोध करनेसे पहली वृत्तिको "अभिधा" कहते हैं। उत्तम बुद्ध के मध्यम द्धको उद्देश्य करके "गाय लाओ" ऐसा कहनेपर मध्यम वृद्धको गाय लानेके लिए तत्पर अनुमान कर बालक इस वाक्यका "सास्ना (गलकम्बल) आदिसे युक्त पिण्डको लाना अर्थ है ऐसा पहले समझ लेता है। पीछे “गायको बाँधो" "घडेको लाओ" इत्यादि वाक्य में अन्वय और व्यतिरेकसे गोशब्दका सास्ना ( गलकम्बल ) वाला पिण्ड अर्थ है और आनयन पदका लाना अर्थ है ऐसे संकेत ( शति. ) को निश्चय करता है । इसप्रकार व्यवहारसे शक्तिग्रहका यह उदाहरण है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy