SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ३४ साहित्यदर्पणे वाक्यमहावाक्ययोः। एकेति साकाक्षानेकपदवाक्यानाम् । अर्थबोधका इति कचटतपेत्यादीनाम् । वर्णा इति बहुवचनमविवक्षितम् । अर्थो वाच्यश्च लक्ष्यश्च व्यङ्गयश्चेति त्रिधा मतः ॥ २ ॥ एषां स्वरूपमाहवाच्याऽर्थोऽभिधया बोध्यो लक्ष्यों लक्षणया मतः । व्यङ्गयो व्यञ्जनया ताः स्युस्तितः शब्दस्य शक्तरः ।। ३ ।। एकेति । 'एक' पदेन, साकाङ्क्षाऽनेक रदवाक्यानाम् साकाङ्क्षाणाम् आकाङ्क्षायुक्तानाम् अनेकपदानाम् अनेकवाक्याना च व्यवच्छेदः :: व्यावृत्तिर्भवति । यथा "शून्यं वासगृहं विलोक्य" इत्यत्र साकाङ्क्षाणामनेकपदानां तथा "यस्थाऽ लो। शल्फसीम्नि जलधि:" इत्यत आरभ्य "असावधामिरुकुलम्" इत्यन्तं यावत् साकाङ्क्षाणामनेकवाक्यानां ( महावाक्यानाम् ) च व्यवच्छेदो भवति । अर्थबोषका इति ! "अर्थबोधका" इति विशेषणेन काटतपे:यादीनां वर्णानां व्यवछेदः । वां इति बहुवचनमविवक्षितम् । अब भाव:-क्वचित् "अः" इति कवनेन एकेनाऽपि वर्णेन-"अकारो वासुदेव: स्यात्" इति कोशप्रमाणतः वासुदेवरूपाऽर्थबोधनात्पदत्व भवति । एवमेव "गो" रिति पदेन गकारोत्तरवत्यौंकाररूपाद्वर्णद्वयात्सास्नालागू. लादियुक्तस्य पशोर्बोधो भवत्यत: वर्णा इति बहुवचनम् अविवक्षितम्, वक्तु न इष्टमित्यर्थः । ____ अथ पदपदार्थयोः सम्बन्धस्य नित्यत्वात्पदलक्षणाऽनन्तरं अर्थ निरूपयितुमुप. क्रमते-पर्य इति । वृत्या पदप्रतिपाद्यत्वम् अर्थत्वम् । स चाऽर्थस्त्रिविधः इति त्रैविध्यं प्रतिपादयति अर्थ इति ॥ २॥ एषांवाच्यादीनामनामेकैकश: स्वरूपम् (लक्षणम्) आह-वाच्योर्थ इति । अभिधया वाच्योऽर्यो बोध्यः, लक्षणया लक्ष्योऽर्थो मतः; व्यजनया . व्यङ्गयोऽर्थो मतः । शब्दस्य ता: अभिधाद्याः, तिस्रः शक्तयः-वृत्तय इति भावः । ___ वस्तुतस्तु अत्र ग्रन्थकारेण विश्वनाथकविराजेन शक्तिपदं वृत्यर्थं प्रयुक्तम् । शकि पदमभिधार्थमेव प्रयुञ्जन्ति विद्वांसः । वर्ततेऽर्थोऽनया इति वृत्तिः ।। ३ ।। प्रयोगयोग्य नहीं होते हैं । "अनन्वित" कहनेसे वाक्य और महावाक्यकी व्यावृत्ति होती है, क्योंकि ये अन्वित है "एक' कहनेसे साकाङ्क्ष, अनेकपद और अनेक वाक्योंकी व्यावृत्ति होती है । "अर्थबोधक" कहनेसे "कचटतप" इत्यादि वर्गों की व्यावृत्ति होती है । "वर्णाः" यहाँ पर बहुवचन विवक्षित नहीं हैं, क्योंकि एक वर्णवाले और दो वर्णोवाले भी पद होते हैं। वाच्य, लक्ष्य और व्यङ्गय इस प्रकार अर्थ के तीन भेद होते हैं । २॥ अर्थोका लक्षण कहते हैं--अभिधासे वाच्यअर्थका, लक्षणा से लक्ष्यअर्थका और व्यञ्जनासे व्यङ्गयअर्थका बोध होता है, इसप्रकार की तीन शक्तियाँ ( पत्तियाँ) होती हैं ।। ३ ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy