________________
साहित्यदर्पणे
वाक्योच्चयो महावाक्यम्योग्यताकारक्षासत्तियुक्त इत्येव।
इत्थं वाक्यं द्विधा मतम् ॥ १॥ इत्थमिति वाक्यत्वेन महावाक्यत्वेन च । उक्तं च तन्त्रवार्तिके
'स्वार्थबोधसमाप्तानामनाङ्गित्वव्यपेक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥' इति ।
एवमेव योग्यतायाः पदाऽर्थधर्मत्वेऽपि स्वाश्रयोपस्थापकत्वसम्बन्धरूपात उपचाराद, स्वपदेन योग्यता गृह्यते, तदाश्रयः पदार्थः, तदुपस्थापकत्वसम्बन्धः पदोच्चये, ततश्च तादशात्परम्परासम्बन्धायोग्यताया अपि पदोच्चयधर्मत्वं बोध्यम् । योग्यतयाऽऽकाङ्क्षयाsसत्या च युक्तानि पदानि वाक्यमिति तल्लक्षणं पर्यवसन्नम् ।
महावाक्यं लक्षयति-"वाक्योच्चयो महावाक्यम्" इति । अवयवधर्मस्याsवयविन्यपि गृह्यमाणत्वाद्योग्यताऽऽकामासत्तियुक्त एव वाक्योच्चयो महावाक्यम् ।
वाक्यं संकलयति-इत्थमिति । इत्थ-वाक्यत्वेन महावाक्यत्वेन च, वाक्यं, • द्विधा = प्रकारद्वयेन, मतं संमतम् । अत्र प्राचां संवादमाह-स्वार्थबोष इति ।
कुमारिलभट्टस्य तन्त्रवार्तिकस्थं पद्यमेतत् । स्वाऽर्थबोधे समाप्तानां वाक्यानाम् अङ्गाऽऽ. ङ्गित्वव्यपेक्षया पुनः संहत्य एकवाक्यत्वं जायत इत्यन्वयः। स्वार्थबोधे=निजाऽभिधेयज्ञापने, समाप्ताना=निराकामाणां, वाक्यानां पदोच्चयानाम्, अङ्गाऽङ्गित्वव्यपेक्षया. गोणमुख्यत्वपर्यालोचनया, पुनः= भूयः, संहत्य=मिथः समेत्य, एकवाक्यत्व-विशिष्टकार्यप्रतिपादकत्वं, जायते उत्पद्यते।
साथ सगति होगी, अतः बुद्धिविच्छेदके होनेसे यह वाक्य नहीं है। यहाँपर आकाङ्क्षा आत्माका धर्म है और योग्यता पदार्थका धर्म है तथाऽपि परम्परासम्बन्धसे ये पद. समूहके भी धर्म माने गये हैं।
योग्यता, आकाक्षा और आसत्तिसे युक्त वाक्यसमूहको "महावाक्य" कहते हैं । इस प्रकार वाक्यके दो भेद है-वाक्य बोर महावाक्य ॥१॥
कहा भी है-अपने अपने अर्थका बोधन कर समाप्त हुए वाक्योंका अङ्गाङ्गि भाव सम्बन्धसे फिर मिलकर एक वाक्यता ( महावाक्यता ) हो जाती है ।