SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः वसानविरहः । स च श्रोतुर्जिज्ञासारूपः । निराकाङक्षस्य वाक्यत्वे, 'गौरश्वः पुरुषो हस्ती' इत्यादानामपि वाक्यत्वं स्यात् । आसत्तिर्बुद्धयविच्छेदः । बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनान्तरोच्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् । अत्राकाङ्क्षा योग्यतयोरात्मार्थधर्मत्वेऽपि पदोच्चयधर्मत्वमुपचारात् । ३१ स च = प्रतीतिपर्यवसानविरहश्च श्रोतुः = आकर्णयितुः, जिज्ञासारूपः, अयं भाव:पदसमूहश्रवणाऽनन्तरमपि यत्र श्रोतुजिज्ञासा विद्यते सा आकाङ्क्षा, यथा घटाऽभावाऽभावः घटो भावरूपो भवति तथैव साऽऽकाङ्क्षाऽपि भावरूपैव । = आकाङ्क्षायाः सार्थकतां प्रदर्शयति- निराकाङ्क्षस्येति । निराकाङ्क्षस्य आकाङ्क्षारहितस्य, पदोच्चयस्येति शेषः, वाक्यत्वे अभ्युपगते "गौरश्वः पुरुषो हस्ती" " इत्यादीनामपि = पदानां वाक्यत्वं स्यात् । अयं भावः – गौरश्वः पुरुषो हस्तीत्यत्र आकाङ्क्षाया अभावेन न वाक्यत्वम् । आसत लक्षयति - श्रासत्तिरिति । बुद्ध्यविच्छेदः = बुद्धेः = ( पदार्थोपस्थितेः) अविच्छेदः=(अव्यवधानम्) आसत्तिः । पदार्थानां मिथो व्यवधानाऽभाव आसत्तिरिति भावः । आसत्तेः सार्थकतां दर्शयति - बुधिविच्छेदेऽपि पदार्थोपस्थितिविच्छेदेऽपि वाक्यत्वेऽभ्युपगत इति शेषः । इदानीम् = अधुना, अस्मिन् समय इति भावः । उच्चरि तस्य = प्रयुक्तस्य, देवदत्तशब्दस्य = देवदत्तपदस्य दिनान्तरोच्चरितेन = दिनान्तरपदं कालान्तरोपलक्षकं, त्तश्च कालान्तरत्रयुक्तेनेत्यर्थः । गच्छतीति पदेन, संगतिः = वाक्यव्यवहारोपयोगिसम्बन्धः स्यात् । अयं भावः आसत्तेरभावेऽपि पदोन्चयस्य वाक्यत्वे - भ्युपगते इदानीमुच्चरितस्य "देवदत्त" इति पदस्य कालान्तरे उच्चरितेन " गच्छती " ति पदेन संगतिः स्यात् परं तत्र बुद्धिविच्छेदेन वाक्यत्वं न भवति । ननु आसत्तेविषयतासम्बन्धेन पदोच्चयधर्मत्वेऽपि "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानात्मनो लिङ्गम् ( न्या० द० १ - १ - १० ) इति न्यायदर्शनानुसारेण आकाङ्क्षाया: ( इच्छायाः ) आत्मधर्मत्वात्कथं पदोच्चयधर्मत्वमितिचेन्न, उपचारात् = स्वजन्यजनकत्वरूपात् परम्परासम्बन्धात्, स्वपदेन आकाङ्क्षा गृह्यते, तज्जन्यो वाक्यार्थः, तज्जनकत्वं पदोच्चये ततश्च तादृशात् परम्परासम्बन्धात् आकाङ्क्षायाः पदोच्चयधर्मत्वम् । ज्ञानकी समाप्तिके अभावको 'आकाङ्क्षा' कहते हैं । वह श्रोताकी जिज्ञासारूप है । आकाङ्क्षासे रहित पदसमूहको वाक्य मानें तो "गौरश्वः पुरुषो हस्ती" "गाय; घोड़ा; पुरुष, हाथी" इत्यादि पदसमूह भी वाक्य हो जायगा । आकाङ्क्षाके न रहने से यह वाक्य नहीं है । बुद्धिका विच्छेद अर्थात् व्यवधान न होनेकी "आसत्ति" कहते हैं बुद्धिविच्छेद होनेपर भी पदसमूहको वाक्य मानें तो इस समय में उच्चारण किये गये "देवदत्तः” शब्दका दूसरे दिनमें उच्चारण किये गये " गच्छति" जाता है इस पदके
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy