________________
द्वितीयः परिच्छेदः
वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।
योग्यता = पदार्थानां परस्पर संबन्धे बाधाभावः । पदोच्चयस्यैतदभावेऽपि वाक्यत्वे 'वह्निना सिञ्चति' इत्याद्यपि वाक्यं स्यात् । आकाङ्क्षा=प्रतीतिपर्य
-वाक्यस्वरूपमाह -
"वाक्यं रसात्मकं काव्यम्” इति काव्यलक्षणं प्रतिपादितम् । तत्र किं नाम वाक्यं कश्च रस इति जिज्ञासायां काव्यलक्षणकुक्षि प्रविष्टं वाक्यं लक्षयितुमुपक्रमते वाक्यस्वरूपमिति । स्वम् = असाधारण, रूपं = स्वरूपं, लक्ष्यस्येतरव्यावर्त को धर्म, लक्षणमिति भावः ।
वाक्यलक्षणमाह - वाक्यमिति । योग्यताऽऽकाङ्क्षाऽऽसत्तियुक्तः पदोच्चयो वाक्यं स्यात् इत्यन्वयः । योग्यतया आकाङ्क्षया आसत्त्या च युक्तः पदोच्चयः = पद. -समूहो वाक्यमिति भावः ।
कारिकां विवृणोति - योग्यतेति | पदार्थानां = पदजन्य प्रतीतिविषयाणां, गवादीनामिति भावः । परस्परसम्बन्धे = मिथः संसर्गे, बाधाऽभावः = प्रतिबन्धाऽभावो - योग्यता इत्यर्थः ।
= पद
योग्यतायाः सार्थकता प्रदर्शयति-पदोच्चयस्येति । पदोच्चयस्य समूहस्य, एतद भावेऽपि = योग्यताऽभावेऽपि वाक्यस्वे अभ्युपगत इति शेषः "वह्निना "सिखति" इत्याद्यनि=पदयुग्ममिति शेषः, वाक्यं स्यात् = भवेत् । अयं भावः - " :- "वह्निना सिद्धति" इत्यत्र सेकं प्रति वह्नेः करणतायां योग्यताऽभावान्न वाक्यत्वम् । सेकं प्रति जलादिद्रवद्रव्यस्यैव करणत्वाज्जलेन सिवति इत्यादेरेव वाक्यत्वं न "वह्निना सिवति" इत्यस्येति भावः ।
अबाऽवसरप्राप्तामाकाङ्क्षां लक्षयति- प्राका क्षेति । प्रतीतिपर्यवमान विरह आकाङ्क्षेति । प्रतीतिः = ज्ञानं तत्पर्यवसानं = तत्समाप्ति:, तद्विरहः = तदभावः । वाक्यका लक्षण कहते हैं
योग्यता, आकाङ्क्षा और आसत्तिसे युक्त पदसमूहको वाक्य कहते हैं। पदार्थों के परस्पर सम्बन्ध में बाध न होनेको "योग्यता" कहते हैं। योग्यताके न होनेपर भी पदसमुदायको जाक्य मानें तो "वह्निना सिखति" अर्थात् आगसे सेचन करता है, इत्यादि प्रयोग भी वाक्य होगा । सेचन क्रियामें वह्निकी करणता न होने से ( योग्यता न होने से ) यह वाक्य नहीं है ।