________________
प्रथमः परिच्छेदः
२९
गुणशब्दोऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते। अतश्च गुणाभिव्यञ्जकाः शब्दा रसस्यात्कर्षकाः' इत्युक्तं भवतीति प्रागेवोक्तम् । एषामपि विशेषोदाहरणानि वक्ष्यामः। इति श्रीमन्नारायणचरणारविन्दमधुव्रत-साहित्यार्णवकर्णधार ध्वनिप्रस्थापनपरमाचार्य-कविसूक्तिरत्नाकराऽष्टादशभाषावारविलासिनीभुजङ्ग-सान्धिविहिक:महापात्र-बीविश्वनाथ कविराजकृती साहित्यदर्पणे ___ काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।
ननु रसमात्रधर्माणां गुणानां कथ शब्दार्थोत्कर्षकत्वमित्याशङ्कप समाधत्तेइहेति । गुणशब्दः रसाऽभिव्यञ्जकशब्दार्थयोः, उपचर्यते = लक्ष्यते । एषामपि = गुणानामपि । विशेषोदाहरणानि वक्ष्यामः = कथयिष्यामः, अष्टमपरिच्छेदे इति शेषः ।
इतीति भगवन्नारायणस्य, चरणारविन्दे = चरणी अरविन्दे इव तयोः, मधुव्रतः = भ्रमरः, साहित्यम् एव अर्णवः = समुद्रः, तस्य कर्णधारः = नाविकः । ध्वनिप्रस्थापने = ध्वनिप्रतिष्ठाकरणे, परमाचार्यः श्रेष्ठदेशिकः, कविसूक्तय एव रत्नानि, तेषाम् आकर:-खनिः, उत्पत्तिस्थानम् इति भावः । अष्टादशभाषा एव, वारविलासिन्य:गणिकाः, तासां भुजङ्गः विटः, सान्धिविग्रहिक:= सन्धिविग्रहाऽधिकारी, महापात्रः = प्रधानमन्त्री विश्वनाथकविराजः= कवीनां राजा कविराजः, कविश्रेष्ठः । कविराजलक्षणं यथा काव्यमीमासायां राजशेखरः- "यस्तु तत्र तत्र भाषाविशेषे, तेषु तेषु प्रबन्धेषु, तस्मिस्तस्मिश्च रसे स्वतन्त्रः स कविराजः" इति विश्वनाथश्चाऽसौ कविराजः, तस्कृती तद्रचनायां साहित्यदर्पणे काव्यस्वरूपनिरूपण नाम प्रथमः परिच्छेदः । इति श्रीशेषराजशर्मप्रणीतायां चन्द्रकलाऽभिख्यायां साहित्यदर्पण.
टीकायां प्रथमः परिच्छेदः ।। इति ।
कारणसे गुणके अभिव्यञ्जक शब्द और अर्थ रसके उत्कर्षक होते हैं यह तात्पर्य है, यह पहले ही कहा गया है। इनके भी विशेष उदाहरण (अष्टम परिच्छेदमें) कहेंगे॥३॥
___ यह श्रीमान् नारायणके चरणकमलोंके भ्रमर, साहित्यरूप समुद्रके कर्णधार ( नाविक ), ध्वनियोंके स्थापनमें परम आचार्य, कवियोंके सूक्तिरूप रनोंके रत्नाकर (समुद्र), अष्टादश भाषारूप वारविलासिनियोंके भुजङ्ग (विट), सन्धिविग्रह करनेवाले महापात्र श्रीविश्वनाथ कविराजकी कृषिरूप साहित्यदर्पणमें काव्यके स्वरूपका निरूपण करनेवाला प्रथम परिच्छेद समाप्त हुवा ॥
साहित्यदर्पणके अनुवादमें प्रथम परिच्छेद समाप्त हुआ।