________________
प्रथमः परिच्छेदः
-
-
रसाभासो यथामधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमोटिताक्षी मृगीमकण्ड्यत कृष्णसारः ।। ३-३६ अत्र सम्भोगशृङ्गारस्य तियग्विषयत्वाद्रसाभासः। एवमन्यत् । दोषाः पुनः काव्ये किंस्वरूपाः । इत्युच्यन्ते
दोषास्तस्यापकषकाः। श्रुतिदुष्टापुष्टार्थत्वादयः कारणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण ___ रसाऽभासमुदाहरति-मधुद्विरेफ इति। स्वां प्रियाम् अनुवर्तमानो द्विरेफः कुसुमकपात्रे मधु पपो। कृष्णसारश्च शृङ्गण स्पर्शनिमीलिताक्षी मृगीम् अकण्डूयत श्यन्वयः ।
कुमारसंभवे मदनप्रादुर्भावाऽनन्तरं वसन्तवर्णनमिदम् । स्वां = स्वकीयां, प्रियां वल्लभां, विरेफीमिति भावः, अनुवर्तमानः अनुसरन्, द्विरेफः = भ्रमरः, लक्षितलक्षणया द्विरेफपदं भ्रमरवाचकम् । कुसुमैकपात्रे = पुष्परूपैकभाजने, मधु = पुष्परसं, पपी = पीतवान् । एवं च कृष्णसारश्च-मृगविशेषश्च शृङ्गेण विषाणेन, स्पर्शनिमीलिताक्षीम् = आमर्शनमुद्रितनयनां, मृगी = हरिणीन, अकण्डूयत गात्रविधर्षणेन सेवितवानिति भावः । अत्र मंभोगशृङ्गारस्य तिर्यग्विषयत्वात् = मानवेतरजन्तुविषयत्वात् रसाऽमास: । एव. मन्यत बोद्धव्यम् । विश्योऽयं तृतीयपरिच्छेदे सविशेष निरूपयिष्यते । इत्थं रस्यमानत्वयोगाद्रसं, भावं, रसाभासं च सामान्य दर्शयित्वा दोषसामान्यस्वरूपं दर्शयितुमुप. क्रमते दोषा इति । दोषा: = च्युतसंस्कृत्यादयो दोषाः, तस्य-काव्यस्य, अपकर्षका:= अपकर्षकारकाः, रसाऽपकर्षत इति शेषः ।
कारिकांऽशं वित्रणोति-श्रुतीति । काणत्वखञ्जत्वादयो दोषा देहद्वारेण देहिनम् इव श्रुतिदुष्टाऽपुष्टाऽर्थत्वादयो दोषा: शब्नाऽर्थद्वारेण काव्यस्यात्मभूतं रसमपकर्षन्ति, एवं च
रसाभास जैसे—यह कुमारसम्भवमें वसन्त ऋतुको साथमें लेकर कामदेवका आविर्भाव होने का वर्णन है। भौंरा अपनी प्रियाका अनुसरण करता हुआ पुष्परूप एक पात्रमें पुष्परस पीने लगा, उसी तरह कृष्णसार मृग स्पर्शसे नेत्रोंको मूंदने वाली मृगीको सींगसे खुजलाने लगा।
__ इस पद्यमें मनुष्य से इतर तिर्यगजातिमें संभोगशृङ्गारका वर्णन होनेसे रसाभास हुआ है । इसो तरह अन्य रसों और भावोंके उदाहरण समझ लें।
काव्यमें दोषों का क्या स्वरूप है ? ऐसी आशङ्का होनेपर कहते हैं-दोष काव्यके अपकर्षक होते हैं ।
जैसे काणत्व और खञ्जत्व आदि दोष शरीरद्वारा शरीरी ( आत्मा ) को अपकृष्ट करते हैं उसी तरह श्रुतिदष्ट और अपुष्टार्थत्व आदि दोष शब्द और अर्थके