SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे 16 यस्यालीगत शल्कसीम्नि जलधिः, पृष्ठे जगन्मण्डलं' दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी। क्रोधे क्षत्रगणः, शरे दशमुखः, पाणी प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ।। अत्र भगवद्विषया रतिर्भावः। यस्य = नारायणस्य, शल्कसीम्नि = वल्कलकदेशे. जलधिः = समुद्रः, अलीयत= लीनोऽभवत्, पदमिदं दशस्वपि वाक्येषु प्रयोज्यम् । अनेन मत्स्याऽवतारो वर्णितः । यस्य पृष्ठे = तनोश्चरमभागे, जगन्मण्डलं = लोकचक्रवालम, अलीयत, अनेन कच्छपाऽवतारो वर्णितः । यस्य दंष्ट्रायां = दशनमण्डले, धरणी = पृथ्वी, अलीयत लीनाऽभवत्, एतेन वराहावतारः । यस्य नखे = नखरे, दितिसुताऽधीशः = दैत्याऽधीश्वरः, हिरण्यकशिपु. रिति भावः अलीयत । अनेन नृसिंहाऽवतारः। यस्य पदे = पादे, रोदसी = आकाशपृथिव्यो, "अलीयेताम्" इति वचनविपरिणामः । लीने अभवतामित्यर्थः, अनेन वामनावतारः । यस्य क्रोधे = कोपे, क्षत्त्रगणः = राजन्य समूहः, अलीयत, अनेन परशुरामाऽवतारः । यस्य शरे = बाणे, दशमुखः = रावणः, अलीयत एतेन रामाऽवतारः । यस्य पाणी = करे, प्रलम्बाऽसुरः = प्रलम्बदत्य:, अलीयत, एतेन बलरामाऽवतारः । यस्य ध्याने = चिन्तने, विश्वं = जगत, अलीयत, एतेन बुद्धायतारः एवं च यस्य सौ = खड्गे, अधार्मिककुलं = म्लेच्छादिनास्तिकसमूहः, अलीयत = लीनमभवत् : 'स्मेचित् अनिर्वचनीयमहिम्ने, अस्म = भगवते नारायणाय नमः । नन्वत्राऽष्टमावतारे भगवन्तं श्रीकृष्णं विहाय कथ बलरामस्योक्तिरिति चेत् ? न "अन्ये चांऽशकलाः प्रोक्ताः कृष्णस्तु भगवान् स्वयम्" इति उचनेन भगवतः श्रं कृष्णस्य सर्गऽवतारमूलभूतं भगवत्त्वं व्यपदिष्टम् । अत्र भक्तस्य नारायणविषयावा रतव्यंज्यमानत्वात्, भावकाव्यस्योदाहरणं संगच्छते। लीन हो गया। जिस ( वामन ) के चरणमें पृथवी और आकाश लीन हो गय । जिस ( परशुराम ) के क्रोधमें क्षत्रियसमूह लीन हो गया, जिस ( राम ) के बाणमें रावण लीन हुआ, जिस (बलराम ) के हाथमें प्रलम्ब नामका दैत्य लीन हुआ, जिस ( बुद्ध ) के ध्यानमें विश्वका लय हुआ और जिस ( कल्की ) के तलवारम अधर्मीलोगोंका लय हुआ ऐसे अनिर्वचनीय महिमावाले भगवान् नारायणको मेरा नमस्कार है ॥ इस पद्यमें भगवद्विषयक रतिके व्यङ्गय होनेसे भावकाव्यका उदाहरण प्रतिपादित है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy