________________
प्रथमः परिच्छेदः
यच्च ध्वनिकारेणोक्तम्'अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ इति ।
अत्र वाच्यात्मत्वं 'काव्यस्यात्मा ध्वनि:-' इति स्ववचनविरोधादेवापास्तम्।
तत्किं पुनः काव्यमित्युच्यते
तद्भिन्नत्वात अवयवसंस्थानभिन्नत्वात् । इत्थं रीतेः काव्यात्मस्वं निरस्य पुनर्वनिकारमत निरसितुमारभते-यच्वेति । . ध्वनिकारेण = आनन्दवर्धनाचायेंण, उक्तम् = अभिहितम् ।
अर्थ इति । सहृदयश्लाध्यः योऽर्थः काव्यात्मा व्यवस्थितः । तस्य वाच्यप्रतीयमानाख्यो उभो भेदी स्मृतावित्यन्वयः।
सहृदयश्लाघ्य:- हृदयालुभिः प्रशंसनीयः, यः, अर्थः = अभिधेयः, काव्यात्मा= काव्यस्य आत्मभूतः, व्यवस्थितः प्रतिपादितः, तस्य = अर्थस्य, वाच्यप्रतीयमानाख्यो वाच्यप्रतीयमाननामधेयो, उभो-द्वौ, भेदो प्रकारो, स्मृतो= चिन्तितो। .
___ऽवनिकारमतं खण्डयति-प्रति । अत्र-अस्यामुक्ती, वाच्यस्य अभिधावृत्तिप्रतिपाद्यस्य अर्थस्य, आत्मत्वम् = आत्मस्थानीयत्वम्, "काव्यस्यात्मा ध्वनिः" इति स्ववचनविरोधात-पूर्वप्रतिपादितनिजवाक्यविरोधात् एव, अपास्तं खण्डितम् ।
ननु भवता मम्मट भट्टस्य, आनन्दवर्धनाचार्यस्य, वामनस्य च मतानि खण्डितान्येव परं स्वमतं न प्रदर्शितम् ।
किमियं वितण्डा ? इति पराक्षेपमाशङ्कय स्वसिद्धान्ताऽनुसारेण काव्यलक्षणं प्रदर्शयितमपक्रमते-तदिति । तत्=तहि, किं पुनः काव्य-निर्दुष्टं काव्यलक्षणं किम् ? इति उच्यते = अप्रिधीयते ।
वाक्यमिति । रसात्मकं वाक्यं काव्यम् । रसस्वरूपं = रसलक्षणं, निरूपयिध्यामः = प्रतिपादयिष्यामः । तृतीयपरिच्छेदे इति शेषः ।
ध्वनिकारने जो कहा है-"सहृदयोंसे प्रशंसनीय जो अर्थ काव्यकी आत्माके रूपमें व्यवस्थित है, उसके वाच्य और प्रतीयमान दो भेद होते हैं" यहाँपर वाच्य अर्थको जो आत्मा मान लिया है वह उनके पूर्वकथित "काव्यकी आत्मा ध्वनि है" इस वन्नसे विरद्ध होनेसे खण्डित हो गया है ।
तब फिर काव्यका लक्षण क्या है ? उस प्रश्नका उत्तर देते हैं-रसस्वरूप वाक्यको काव्य कहते हैं । रसके स्वरूपका निरूपण ( तृतीयपरिच्छेदमें ) करेंगे।