________________
साहित्यदर्पणे
-
वाक्यं रसात्मकं काव्यम्रसस्वरूपं निरूपयिष्यामः। रस एयात्मा साररूपतया जीवनाधायको यस्य, तेन विना तस्य काव्यत्वाऽभावस्य प्रतिपादितत्वात् । 'रस्यते इति रसः' इति व्युत्पत्तियोगाद् भावतदाभासादयोऽपि गृह्यन्ते।
तत्र रसो यथाशुन्यं पासगृहं विलोक्य शयनादुत्थाय कित्रिच्छने
निद्राब्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् ।
"रसात्मकम्” इति पदं व्युत्पादयति । रस एवेति । अत्र रसपदेन असंलक्ष्यक्रमभेदानां सर्वेषां परिग्रहः । अत्र अन्ययोगव्यवच्छेदाऽर्थकेन एवपदेन गुणाऽलङ्कारादीनां व्यवच्छेदः । साररूपतया स्थिरांऽशरूपत्वेन, जीवनाधायकः = काव्यलक्षणप्रयोजकः । तेन विना=रसेन विना तस्य-वाक्यस्य, काव्यत्वाऽभावस्य, प्रतिपादितत्वात् "देवदत्तो ग्रामं याती"त्यादि ग्रन्थेनेति भावः । रस्यते आस्वाद्यत इति रस:-"रस आस्वादने" इति धातो कर्मकर्तरि घन, इति व्युत्पत्तियोगात् = प्रकृतिप्रत्ययविवेचनसम्बन्धात । भावतदामासादयोऽपि =भावा:, तदाभासा:-रसाभासा भावाभासाश्च । एव च आदिपदेन भावशान्तिः, भावोदयः, भावसन्धिर्भावशबलता चंते सर्वेपि गृह्यन्ते । तेषां सर्वेषा. मास्वादविषयत्वादिति भावः।
तत्र रसो यथा-शन्यमिति । बाला वासगृहं शून्यं विलोक्य शनैः किञ्चित उत्थाय निद्राव्याजम उपागतस्य पत्युर्मुखं सुचिरं निर्वर्ण्य विश्रब्धं परिचुम्ब्य जात पुलकर गण्डस्थलीम् आलोक्य लज्जानम्रमुखी (सती) हसता प्रियेण चिरं चुम्बिता इत्यन्वयः ।
वाला = तरुणी, नवपरिणीता वधूरित्यर्थः। वासगृहं = गर्भाऽगारं, शून्यं = विविक्तं, सखीजनरहितमिति भावः । विलोक्य दृष्ट्वा, शनः मन्दं, निःशब्दमिति भावः । किञ्चिद, उत्थाय-उत्थानं कृत्वा, निद्राच्या = स्वापच्छलम्, उपागतस्य प्राप्तस्य, नायिकायाः कार्यदर्शनार्थमिति भावः। पत्युः = भतु:, प्रियस्येत्यर्थः । मुखम् = आननं, सुचिर-दीर्घकालं, निर्वर्ण्य = दृष्ट्वा, अयं निद्राणोऽस्ति नोवेति परीक्षार्थमिति शेषः ।
सारस्वरूप होनेसे रस ही जिसके जीवनका आधान करने वाला है ऐसे रसात्मक वाक्यको काव्य कहते हैं । रसके विना वाक्यमें काव्यता नहीं रहती है इस बातका प्रतिपादन कर चुके हैं। जिसका आस्वादन किया जाता है वह रस है" ऐसी व्युत्पत्ति करनेसे भाव और रसाभास आदियोंका भी ग्रहण होता है। उनमें रसका उदाहरण देते हैं-"नवोढा नायिकाने कमरेको ( सखी आदियोंसे ) शून्य देकर पलंगसे धीरे धीरे उठकर नींदके बहानेसे लेटे हुए पति के मुखको बहुत समय तक देखकर विभास