________________
साहित्यदर्पणे
ननु तहि प्रबन्धान्तवर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्व न स्यादिति चेत् ? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनंव तेषां रसवत्ताङ्गीकारात् । यत्त नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावाहोषाभावादलकारसद्भावाच काव्यव्यवहारःस रसादिमत्काव्यबन्धसाम्याद् गौण एव ।
यत्त वामनेनोक्तम्-'रीतिरात्मा कान्यस्य' इति, तन्न, रोतेः संघटनाविशेषत्वात्। संघटनायाश्चावयवसंस्थानरूपत्वात् , आत्मनश्च तद्भिन्नत्वात् ।
पुनराशते-नन्विति । ननु = रसवदेव काव्यं यदि, तहि = तदा, प्रबन्धाऽ. न्तर्वतिनां = काव्यमध्यस्थिताना, नीरसानां = रसरहिताना, पद्यानां छन्दोबद्धपदानां, काव्यत्वं = काव्यलक्षणघटितत्वं, न स्यात् इति चेत्,
समाधत्ते-नेति । रसवत्पद्याऽन्तर्गतनीरसपदानां = रसयुक्तपद्यान्तःस्थितरसरहितशम्दानां, पद्यरसेन इव = पद्यस्थितशृङ्गारादिरसेन इव, तेषां = नीरसानां पद्यानां, प्रबन्धरसेनव-काव्यस्थितशृङ्गारादिरसेनव, रसवत्ताऽङ्गीकारात्-रसयुक्ततास्वीकारात् । पुनराशय समाधते-यत्त्विति । यत्तु नीरसेष्वपि = रसरहितेष्वपि, वाक्येष्विति शेषः । गुणाऽभिव्यञ्जकवर्णसद्भावात् = माधुर्यादिगुणाऽभिव्यञ्जनकारकाऽक्षरसत्त्वात्, दोषाऽभावात् दुःश्रवत्वादिदोषाऽभावात् । अलङ्कारसद्भावात्र-उपमाद्यलङ्कारमत्त्वाच्च । काव्यन्यवहारः = काव्यव्यपदेशः, सः = व्यपदेशः । रसाऽऽदिमत्काव्यप्रबन्धसाम्यात् = शृङ्गारादिरसविशिष्टकाव्यप्रबन्धसादृश्याद्धेतो., गौण एव-अमुख्य एव इति भावः।
पुनः प्राचीनं मतद्वयं खण्डयितुमुपक्रमते । तत्राचार्यवामनमतं प्रथम खण्डयतियत्त वामनेन = काव्याऽलङ्कारक; आचार्यवामनेन । काव्यस्य आत्मा, रीतिः = वंदर्यादिरिति भावः, सिद्धान्तो खण्डयति-तन-रीते: काव्यस्य आत्मत्वं नेति भावः । स्वमतमुपपादयति रीते:-वेदादेः, संघटनाविशेषत्वात् = पदसंघटनाभेदत्वात्, गुणाभिव्यञकशब्दविन्यासरूपत्वादिति भावः । संघटनायाश्व-संयोजनायाश्च । अवयवसंस्थानरूपत्वात् = तत्तदङ्गसंनिवेशस्वरूपत्वात् । आत्मनश्च = अङ्गिभूतस्य काव्यम्य,
प्रश्न करते है कि रसयुक्त वाक्य ही काव्य होते हैं तो प्रबन्ध ( काव्य ) के भीतर रहे हुए कुछ नीरस पद्य भी काव्य होंगे, इसका उत्तर देते हैं-पद्योंके भीतर रहे हुए कुछ नीरस पद जैसे उस पद्यके रससे रसवाले माने जाते हैं वैसे ही प्रबन्धके रससे वे नीरस पद्य भी सरस माने जाते हैं। जो नीरस वाक्योंमें भी गुणोंके अभिव्यञ्जक वर्णोके होनेसे दोषोंके न होनेसे और अलङ्कारोंके होनेसे काव्यका व्यवहार होता है वह रस आदिसे युक्त काव्यको रचनाकी तुल्यताके कारण गौण ( लाक्षणिक ) प्रयोग है।
वामन आचार्यने "काव्यको आत्मा रीति है" ऐसा जो कहा है वह ठीक नहीं। रीति संघटना ( पदरचना ) स्वरूप है, संघटना अवयवसंस्थानस्वरूप है, आत्मा उससे भिन्न होती हैं । इसलिए वैदर्भी आदि रीति काव्यकी आत्मा नहीं हो सकती है।