SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः - - लवाररसादिलक्षणनिरूपी ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तः। द्वितीयश्चेदोमिति ब्रूमः। ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा अत्ता एत्थ णिमज्जइ, एस्थ अहं, दिप्रस पलोएहि । ___ मा पहिल रत्तिअन्धिअ ! सेज्जाए मह णिमज्जहिसि ।। आत्मस्थानीय इति । तन्मतं खण्डयितुमनुयुङ्क्ते-तदिति । तत् = तहि, वस्त्वलहाररसादिलक्षणः = वस्तु ( अनलङ्कारं वस्तुमात्रम् ) अलङ्कारः ( शब्दाऽर्थयोः शोभाऽतिशायी धर्मः), रसः (शृङ्गारादिः), आदिपदेन रसभावाभासादयः असंलक्ष्यक्रमभेदाः, लक्षणं यस्य सः इत्थं च त्रिरूप:-त्रिप्रकारः, ध्वनिः, काव्यस्याऽत्मा, उतअथवा, रसादिरूपमात्रो वा । अत्र मात्रपदेन वस्त्वलकारव्यावृत्तिः । न आद्यः = न प्रथमः त्रिरूपो ध्वनिर्न काव्यस्याऽऽत्मेति भावः । तत्र हेतुमुपन्यस्यति-प्रहेलिकादावतिव्याप्तेः । प्रहेलिकादो-वस्तुरूपे ध्वनौ, अतिव्याप्तेः अतिप्रसक्तेः । लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वं हि अतिव्याप्तेः स्वरूपम् । यथा गोलक्षणे शृङ्गित्वस्य लक्ष्यभूते गवि वृत्तित्वेऽपि अलक्ष्ये महिषेऽपि वृत्तेः शृङ्गित्वस्य यथा अतिव्याप्तिस्तथा प्रकृतेऽपि त्रिरूपे ध्वनी काव्यात्मनि मते, अलक्ष्ये प्रहेलिकादावपि अतिव्याप्तिः ( अतिप्रसक्तिः) स्यात् । प्रहेलिका नाम व्यङ्गयाऽर्थविशेषो नीरसो वाक्यविशेषः । यथा "तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कुजति मुहुर्मुहुः ? ॥" इत्यादावित्यर्थः । अत्र किश्चिदूनजलघटरूपं वस्तु व्यङ्गयम् । अस्य रसपरिपन्थित्वान्नाऽङ्कारत्वं किमुत काव्यत्वमिति भावः । द्वितीयं पक्षमुपस्थापयति-द्वितीयश्चेत् = रसादिरूपमात्रो वा यदि, काव्यस्यात्मेतिशेषः । स्वीकरोति-मोमिति बमः। ओमित्यङ्गीकाराऽर्थकमव्ययम् । "वाक्यं रसात्मकं काव्यम्' इत्यस्मत्पक्षत्वात् । पुनराशङ्कते-नन्विति । द्वितीयपक्षाऽनुसारेण रसादिरूपमात्रः = वस्त्वलङ्काररहितः । ध्वनिः = व्यङ्गचविशेषः, काव्यस्य आरमा = स्वरूपं, यदि = चेत्, तदा = तहि-प्रत्तेति । रात्र्यन्धत्वेन कथितात्मानं निजगृहे कृतावासं पान्थं प्रति स्वयं दूत्या उक्तिरियम् । अत्र अत्ता निमज्जति, अत्र अहं, ध्वनि है। यहां हम पूछते हैं वस्तु अलङ्कार और रसादिक इन सबकी ध्वनियोंको आप काव्यको आत्मा मानते हैं वा केवल रसादिकी ध्वनिको? इनमें पहला पक्ष ठीक नहीं है, प्रहेलिका ( पहेली) आदि वस्तुरूप ध्वनिमें अतिव्याप्ति हो जायगी। जहां अलक्ष्य में लक्षण जाता है उसे अतिव्याप्ति कहते हैं। इनमें दूसरा पक्ष-केवल रसादिकी ध्वनिको काव्य मानते हैं तो हम मजूर करते हैं। फिर प्रश्न करते हैं-केवल रसादि ध्वनिको काव्यकी आत्मा मानते हैं तो"श्वश्रूरत्र निमज्जति०॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy