SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे [श्वश्रूरत्र निमज्जति, अत्राह, दिवसकं प्रलोकय । मा पथिक ! राज्यन्धक ! शय्यायां मम निमक्ष्यसि ॥] इत्यादौ वस्तुमात्रस्य व्यङ्गयत्वे कथं कान्यव्यवहार इति चेत् ? न,अत्रापि रसाभासवत्तयैवेति नमः, अन्यथा 'देवदत्तो प्रामं याति' इति वाक्ये तभृत्यस्य तदनुसरणरूपव्यकथावगतेरपि काव्यत्वं स्यात् । अस्त्विति चेत् ? न, रसवत एव काव्यत्वाङ्गीकारात्। ___ काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां दिवसकं प्रलोकय । रात्र्यन्धक हे पथिक ! आवयोः शय्यायां मा निमक्ष्यसि इत्यन्वयः । अत्र = अस्मिन्स्थाने, अत्ता = श्वश्रूः, श्वश्रूवाचकोऽत्ताशब्दो देशीभाषायां प्रयुज्यते । निमज्जति जलमग्ना इव तिष्ठति, मृतप्रायेव वतंत इति भावः । अहं = नायिका, अत्र, तिष्ठामि; दिवसक = दिवसम् एव प्रलोकय = सम्यक् पश्य-हे रात्र्यन्ध पथिक ! आवयोः = श्वश्रूस्नुषयोः, शय्यायां = शयनस्थाने, मा निमक्ष्यसि = नो मज्जनं करिष्यसि, इत्यादी = लक्ष्ये, वस्तुमात्रस्य = ममैव शम्यायां निर्भयं समा. गच्छेति वस्तुमात्रस्य, व्यङ्गयत्वे व्यञ्जनावृत्या प्रतीयमानत्वे, कथं केन प्रकारेण, काव्यव्यवहार: काव्यव्यपदेशः, अत्र रसप्रतीतेरभावादितिशेषः, इति चेत् ? समाधत्ते-नेति। न-इत्थमाशङ्का न कर्तव्या, अबाऽपि = अस्मिन्नपि, रसाभासवत्ता एव = रसाऽऽभासविशिष्टता एव, काव्यव्यवहारकारणमिति ब्रूमः । अयं भावः । अत्र स्वयं दूत्याः पुंश्चल्या नायिकाया उपनामकरूपपथिकसंस्थायां रतौ शृङ्गाराऽभासत्वमिति भावः । अन्यथा = वस्तुमात्रस्य व्यङ्गयस्वेऽपि काव्यत्वस्वीकारे, "देवदत्तो ग्रामं याति" इति वाक्ये, तद्भत्यस्य = देवदत्ताऽनुचरस्य, तदनुसरणरूपव्यङ्गयाऽवगतेरपि = देवदत्तानुगमनरूपव्यङ्गयज्ञानस्य अपि । काव्यत्वं स्यात्, अस्विति चेत् ? रसवत एव-रसविशिष्टवाक्यस्य एव 'काव्यत्वाङ्गीकारात् । नीरसस्य वाक्यस्य काव्यत्वाऽस्वीकारे हेतुमाह-काव्यस्य प्रयोजनमिति । काव्यस्य प्रयोजनम् = उद्देश्य, रसास्वादसुखपिण्डदानद्वारा = रसा "इस स्थानपर मेरी सास निद्रामें निमग्न होती है और यहाँपर मैं सो जाती हूं। हे रतौंधीवाले पान्थ ! यह दिनमें ही देख लो, कहीं मेरी शय्यापर नहीं आना।" यह स्वयं दूतीकी उक्ति है । इत्यादि स्थलमें जहां वस्तुमात्र व्यङ्गय होता है वहां कंसे काव्यका व्यवहार होगा ? उत्तर देते हैं, यहाँ भी रसाभास होनेसे ही हम काव्य मानते हैं। यहां स्वयं दूतीकी उपनायकरूप पथिकमें रति होनेसे यह शृङ्गाराभास है यह तात्पर्य है । आस्वादका विषय होनेसे यह भी काव्यकोटिमें आ सकता है। - ऐसा न मानें तो "देवदत्त गांवको जाता है" इस वाक्यमें देवदत्तके नौकरके उसका अनुसरणरूप व्यङ्गय अर्थमें भी काव्यका लक्षण जायगा। ऐसा ही हो, क्या हर्ज है ? ऐसा कहना नहीं चाहिए, क्योंकि हम रसयुक्त वाक्यको ही काव्य मानते हैं । काव्यका उद्देश्य शृङ्गार आदि रसका आस्वादनरूप हर्षसमूहके दानरूप उपायसे वेद
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy