SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः यच्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्- . यः कौमारहरः स एव हि वरस्ता एव चत्रक्षपा-11 .... __स्ते चोन्मोलितमालतीसरभयः प्रौढाः कदम्मानिला। . सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । इति ।.. एतच्चिन्त्यम् । अत्र हि विभावनाविशेषोक्तिमूलस्य संदेहसङ्करालकारस्य स्फुटत्वम् । यः कौमारहर इति। यः कौमारहरः स एव वरो हि । ता एव चैत्रक्षपा हि । उन्मीलितमालतीसुरभयः ते एव प्रोढा: कदम्बाऽनिलाः हि । सा च एव अस्मि हि। तथाऽपि तत्र रेवारोधसि वेतसीतस्तले सुरुतव्यापारलोलाविधी चेतः समुत्कण्ठते इत्यन्वयः। ___स्वाऽधीनपतिकाया: कस्याश्चिन्नायिकाया वरोपकरणादिष्वसकृदुपभुक्तेष्वपि सखी प्रति तत्र लालसासूचिकोक्तिरियम् । हे सखि | यः कोमारहर: कुमारीभावाऽपहारकः, स एव = उपभुक्त एव, न अन्य इति भावः, वरः = परिणेता, हि = निश्चयेन, वाक्यान्तरेष्वपि इदं सम्बध्यते । एतेन उभयाऽनुरागो व्यज्यते । ता एव = पूर्वोपभुक्ता एव, चैत्रक्षपा:= मधुरात्रयः, हि । उन्मीलितमालतीसुरभयः = उन्मीलिता (विकसिता) या मालती ( वासन्तिकलता ), तया सुरभय: ( मनोहरगन्धाः ), अत्र मालतीपदेन जातिन ग्राह्या, तस्याश्चत्रे असंभवात् । ते एव = पूर्वोपभुक्ता एव, प्रौढाः= उद्दीपनप्रागल्भ्यशालिनः, कदम्बाऽनिला:धूलीकदम्बपुष्पवाता:, हि। सा च एव - तववस्था एव, हि । अस्मि = अहम् अस्मि । तथाऽपि = उपभुक्तसकलसामग्रीसत्वेऽपि, तत्र = उपभुक्ते, रेवारोधसि = नर्मक्षतटे, वेतसीतरुतले = वेतसलताऽधोभागे, सुरतव्यापार. लीलाविधी = रतिक्रियाविलासविधाने, चेतः= चित्तं; समुत्कण्ठते समुत्सुकं भवति । अत्र तावद्विभावनाविशेषोक्ती प्रतीतिपथमवतरत एव परं न स्फुटे । तद्यथा "विमावना विना हेतु कार्योत्पत्तियंदुच्यते।" इति हि विभावनालक्षणम् अस्मिन्पो उत्कण्ठारूपस्य कार्यस्य वरसङ्गमाभावादिकारणाऽभावेऽपि उत्पत्तेः कि विभावनाऽस्ति, उताहो कारणे वरसङ्गमादौ सत्यपि उत्कण्ठाऽभावरूपस्य फलस्य अनुत्पत्तेः विशेषोक्तिरस्ति इति द्वयोरपि विभावनाविशेषोक्तिरूपयोरलङ्कारयोः अस्फुटत्वम् इति काव्यप्रकाशकारमतम् । एतच्चिन्त्यम् = दूष्यत्वेन विचारणीयमिति भावः । तत्प्रतिपादयति-पत्र होति । "जिसने कुमारीभावका हरण किया है वही वर हैं, वे ही चैत्र मासकी रात्रियों हैं, और विकसित वासन्तीलतासे सुगन्धयुक्त प्रौढ ( उद्दीपन करनेवाले ) वही कदम्बवनका वायु है और मैं भी वही हूँ, इस प्रकार ये सब पहले अनुभव किये गये हैं; तोभी नर्मदाके तटमें बेतके पेड़ोंके नीचे रमण करनेके लिए चित्त उत्कण्ठित हो रहा है।" अस्फुटालङ्कारके उदाहरणकी तौरपर दिया गया यह पद्य विचारणीय है। २सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy