SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे एतेन 'अनलकृती पुनः क्वापि' इति यदुक्तम, तदपि परास्तम् । अस्यार्थः-सर्वत्र सालङ्कारौ कचित्त्वस्फुटालद्वारावपि शब्दार्थों काव्यमिति । तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षमात्राधायकत्वात् । . ___ एतेन 'वक्रोक्तिः काव्यजीवितम्' इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् । वक्रोक्तरलङ्काररूपत्वात् । ____एतेन माधुर्यादीनां गुणानामुपमादीनामलङ्काराणां च काव्यस्य न स्वरूपाधायकत्वं, शौर्यादीनां कटककुण्डलादीनां च यथा मानवस्योत्कर्षाधायकत्वमेव न स्वरूपाधायकत्वं तथवाऽत्रापि बोद्धव्यम् । "अनलकृती" इत्यंशस्य दूषणार्थम् उपक्रमत एतेनेति । एतेन% अलङ्कारादीनां कटककुण्डलादिसामान्यताकथनेन "अनलङ्कृती पुनः क्वाऽपि" इति यदुक्तं तदपि परास्तं-प्रत्याख्यातम् । उपपादयति-प्रस्य ह्यर्थ इति । सर्वत्र साऽलसारी= अलङ्कारसहितौ शब्दाऽर्थी, क्वचित्तु अस्फुटाऽलङ्कारी= अव्यक्ताऽलङ्कारी अफि शब्दाऽयो काव्यम्" इति काव्यप्रकाशस्य यदभिमतं तद् दूषयति-तत्रेति । तत्र = तस्मिन्विषये सालङ्कारशब्दार्थयोरपि = अलङ्कारोपेतशब्दार्थयोरपि काव्ये उत्कर्षमात्राधायकत्वात = प्रकर्षमात्राधानकारकत्वात्, हेतोः पूर्वप्रदशितदिशा न काव्यस्वरूपाधायकत्वमितिशेषः । वक्रोक्तिजीवितकारस्य कुन्तकस्य मतं बण्डयति-एतेनेति । एतेन = बलकाराणामुत्कर्षमात्राधायकत्वेन, काव्यलक्षणेऽप्रवेश्यत्वेनेति भावः । "वक्रोक्तिः काम्यजीवितम्" वक्रा ( विचित्रा ) उक्तिः (भणितिः ), सा इव काव्यजीवितं = काव्य: स्वरूपाधायकत्वेन जीवनस्थानीयं, न तु रसादिरिति शेषः, इति वक्रोक्तिजीवितकारोक्तम् अपि-कुन्तकप्रतिपादितम् अपि, पराऽस्त-निरस्तम् । अत्र हेतु प्रतिपादयतिचक्रोक्तेःअलकाररूपत्वात, वैचित्र्याधायकत्वेनेति शेषः, तथा च वक्रोक्तरुत्कर्षमात्राधायकत्वं न तु स्वरूपाधायकत्वमिति भावः । इत्थं च काव्यप्रकाशकारेण प्रतिपादितकाव्यलक्षणं साकल्येन दूषयित्वा तत्सम्मतमस्फुटालङ्कारोदाहरणं दूषयितुमारभते-यच्चेति । क्वचित् = कुत्रचित्, काव्यप्रकाश इति भावः, अस्फुटाऽलङ्कारे उदाहृतं निदर्शितम् । ऐसे पूर्वोक्त वचनोंसे "अनलकृती पुनः क्वाऽपि" अर्थात् कहींपर स्फुट अलङ्काररहित शब्द अर्थ भी काव्य हैं, यह कथन भी खण्डित हो गया। इसका अर्थ है-सर्वत्र अलङ्कारवाले कहींपर अस्फुट अलङ्कारवाले. शब्द और अर्थ भी काव्य होते हैं । उसमें अलङ्कारयुक्त शब्द और अर्थ भी काव्यमें उत्कर्षमात्रका आधान करते हैं, अर्थात लक्षणरूप नहीं हो सकते हैं। इस कथनसे "वक्रोक्ति काव्यका जीवन है" ऐसा वक्रोक्तिजीवितकार (कुन्तक) का कथन भी खण्डित हो गया। क्योंकि वक्रोक्ति भी अलङ्कार है, उसका लक्षणमें निवेश नहीं हो सकता है। जो यह कहींपर ( काव्य प्रकाशमें ) अस्फुटाऽलङ्कारका उदाहरण दिया है
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy