SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः देशा इति केनाऽप्युच्यते । ननु 'शब्दार्थौ सगुणों' इत्यनेन गुणाभिव्यञ्जको शब्दार्थी काव्ये प्रयोज्यावित्यभिप्राय इति चेत् ? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कर्षमात्राधायकत्वम्, न तु स्वरूपाधायकत्वम् । उक्तं हि - 'काव्यस्य शब्दार्थौ शरीरम्, रसादिश्वात्मा, गुणाः शौर्यादिवत् ' दोषाः काणत्वादिवत् तयोऽत्रयत्र संस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्' इति । १५ अनुपपत्त्या ( उपपत्त्यभावेन ), एतत् = "रसवन्ती" इति विशेषणं, लभ्यते प्राप्यते इति चेत् । तर्हि=तदा, सरसी शब्दाऽथ इत्येव वक्तु = प्रतिपादयितुं युक्तम् = उपपन्नम्। न सगुणी शब्दार्थों इति । 1 सिद्धान्ती स्वोक्ति समर्थयते - न हीति । प्राणिमन्तो देशा इति वक्तव्ये शो मन्तो देशा इति नहि केनाऽपि उच्यते । अयं भावः । शौर्यादिधर्मो यद्यपि प्राणिषुषु एव तिष्ठति यथा प्राणिमन्तो देशा इति अकथयित्वा शौर्यादिमन्तो देशा इति न केनाऽपि उच्यते तथैव गुणादयो धर्मा धर्मिषु रसेषु तिष्ठन्ति तथाऽपि गुणवन्ताविति पदेन रसवन्तौ शब्दार्थाविति मनसिकृत्य सवेत्सा न केनाऽपि प्रयुज्यत इति भावः । पूर्वपक्षी सगुणाविति 'विशेषणस्याऽभिप्रायान्तरं दर्शयति - शब्दाऽर्थाविति । शब्दार्थो सगुणावित्यनेन गुणाऽभियञ्जको = गुणानाम् (माधुर्यादीनाम् ) अभिव्यञ्जको (अभिव्यञ्जः कर्तारौ ) शब्दार्थी, - काव्ये प्रयोज्यौ = प्रयोक्तुमहाँ इत्यभिप्रायः = इत्याशय इति चेत् दूषयति-न गुणाभिव्यञ्जक शब्दाऽर्थवत्त्वस्य अपि = माधुर्यादिगुणाभिव्यञ्जकशब्दाऽर्थसहितत्वस्य धर्मस्य अधि काव्ये = धर्मिस्वरूपे, उत्कर्ष मात्रा धायकत्वं = प्रकर्ष मात्र धान कर्तृत्वं न तु स्वरूपाश्रा- यकत्वं = लक्षणप्रयोजकत्वम् । स्वोक्ति प्राचीनमत निदर्शनेनोपपादयति-उक्तं हीति । काव्यस्य = लक्ष्यस्य शब्दाऽर्थी, शरीरं देहम्, रसादिश्व आत्मा, आदिपदेन ध्वनिरसाभासादीनां ग्रहणम् । गुणा: माधुर्यादयः पुरुषस्य शौर्यादिवत् उत्कर्षाधायका इति भावः । दोषाः = श्रुत कवादयः पुरुषस्य काणत्वादिवत्, अपकर्षका इति भावः । रीतयः = पदसंघटनाः, वैदर्भातोडीपावालीलाट्य इति भावः पुरुषस्य अवयवसंस्थानवत् वर्णपदबन्धाद्यवयवभूत इति भावः । अलङ्काराश्च=अनुप्रासोपमादयश्च पुरुषस्य कटककुण्डलादिवत् शब्दामा तिशायिनो धर्मा इति भावः । "शब्दाऽथ सगुणी " ऐसा कहनेसे गुणों के अभिव्यञ्जक शब्द और अयोका काव्यमें प्रयोग करना चाहिए यह कहना भी उचित नहीं है, क्योंकि गुणोंके अभिव्यञ्जक शब्द और अर्थ काव्य में उत्कर्षका ही आधान करते हैं न कि लक्षणका आधान । कहा गया है - शब्द और अर्थ काव्यके शरीर हैं, रस आदि आत्मा है । गुण शौर्य आदि हैं । दोष काणत्व आदिके सदृश हैं । वैदर्भी आदि रीतियाँ काव्य के अवयवसंस्थानविशेषकी तुल्य हैं । उपमा आदि अलङ्कार कटक और कुण्डल आदि के समान रहते हैं । समान
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy