________________
भलङ्कारराघवे
''सादृश्यत्वेनानेकत्र प्राप्तस्य सादृश्यस्यैकत्र नियमनेन द्वितीयसब्रह्मचारिनिवृत्तिपर्यवसानम् 'अनन्वयः' इति लक्षणम् । परिसंख्यायां वस्तुत्वे. नैवानेकत्र प्राप्तस्य वस्तुनः एकत्र नियमनादितरनिवृत्तिपर्यवसानमिति न तत्रान्तर्भावापत्तिदोषः । यद्वा ' यद्धर्मावच्छेदेन यस्योपमेयत्वं शब्देन प्रथमतः पतीयते तद्धर्मावच्छेदेन तस्य शब्देन प्रथमतः प्रतीयमानत्वमुपमानत्वमनन्वयत्वमिति। 'रामो राघव इवे'त्यादौ नाव्याप्तिः । राघवशब्देनापि रूढ्या प्रथमतो रामत्वावच्छेदेनैव रामस्योपमानत्वप्रतीतेः । न च रामो विष्णुरिवेत्यत्रोपमायामतिव्याप्तिः । तत्र प्रथमतो विष्णुशब्देन 'विष्णुत्वावच्छेदेन विष्णूपमानत्व प्रतीतिरिति न कोऽपि दोषः । उदाहरणम् - .. सन्तु नाम भुवनेषु मौळयो
'भूमिपालसुरमूर्धधारिताः। . राममौळिसममुज्वलोज्वलो
राममौलिरिव जृम्भतेऽधुना ॥
.
.
1 सदृशत्वेन-आ . 'द्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयक
सादृश्यं तदन्वयः' (रसगङ्गाधरः-२ आननम्) 'विष्णुत्वावच्छेदेन-इति पदं 'त-म' प्रत्योः नास्ति । 'प्रतीतेरिति-त,न 'भूमिपालनसुम्र्धधारिताः-आ. • रथोद्धतावृत्तम्