________________
उपमेयोपमालङ्कारप्रकरणम्
.. ॥ अथ उपमेयोपमालङ्कारः ॥ ननु–'विपर्यास उपमानोपमेययोः उपमेयोपमा' इति काव्यप्रकाशकारः । 'द्वयोः पर्यायेण तस्मिन् उपमेयोपमा' इत्यलारसर्वकारः । . 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । .
- उपमेयोपमा सा स्यात् द्विविधैषा प्रकीर्तिता' ||
इति साहित्यचिन्तामणिकारः । 'पर्यायेण द्वमौस्तस्मिन्नुपमेयोपमा मता' इति विद्यानाथः ।
'यद्युभयोः पर्यायात् स्यादुपमानोपमेयत्वम् । सन्निहितवाक्यमेदे सत्युपमेयोपमा द्विविधा' ||
इति विद्याधरः । एतानि लक्षणाणि न लक्षणज्ञानां 'मनो हि रञ्जयन्ति । रामश्चन्द्र इवेत्याधुपमाया मतिव्याप्तेः । तत्र रामस्य चन्द्रप्रतियोगिकसादृश्यप्रतीती चन्द्रस्यापि रामप्रतियोगिकसादृश्यप्रतीतेः पूर्वमुपमानोपमेययोः सतोः पश्चादुपमेयोपमानत्वप्रतीतेः । अन्यथा 'अयं तत्सम' इत्युक्ते 'सोऽप्येतत्सम' इति व्यवहाराभावप्रसंगात् । ननु पूर्वमुपमानोपमेययोः पश्चाद्वाक्यान्तरेणोपमेयोपमानभावोपनिबन्धे उपमेयोपमेति लक्षणं विवक्षितमिति चेतर्हि 'रामश्चन्द्र इवाभाती'त्युपमानन्तरमेकस्मिन्नेव काव्ये श्लोकान्तरे 'चन्द्रो राम इवाभाती'त्युपमानिवन्धे सत्युपमेयोपमाप्रसङ्गः। नन्वेकस्मिन्नेव श्लोक इति विशेष्यत इति चेत् तर्हि गद्यसंबन्ध्युपमेयोपमायामव्याप्तिप्रसङ्गः । तनु तर्हि एकत्र काव्ये प्रबन्धे वा तथेति विवक्षितमिति चेत् तर्हि प्रागुक्तदोषापत्तिरनपायैव ।
'अधुनोपमेयोपमालङ्कारः-त .
मनो रजयन्ति-न. 'मतिव्याप्तिः-त 'तर्हि तदेवाऽन्यप्रवन्धेषु तथेति-त