________________
47
अनन्वयालंकारप्रकरणम् त्वमपि संभवतीति वाच्यम् | दृष्टान्तस्याप्यसंप्रतिपत्तेः । न च शिष्टमेव लक्षणमस्त्विति वाच्यम् । उपमानोपमायामतिव्याप्तिप्रसङ्गात् । तत्राप्येक. स्योपमानोपमेयभावानीकारात्। ननु 'युगपदेकस्योपमानोपमेयत्वेऽनन्वय' इति विशेषणान्नोक्तदोष इति चेत् न । उक्तोत्तरोत्वात् । 'नन्वेकस्योपमानोपमेय. भावस्योपनिबद्धस्य अनुपपत्या द्वितीयसब्रह्मचारिनिवृत्तिपर्यवसानमनन्वय' इति चेत् , तबप्रश्नपूर्वकपरिसंख्यालङ्कारेऽन्तर्भावप्रसङ्गः । 'एकस्य तस्यानेकत्र प्राप्तस्य वस्तुन एकत्रैव, नियमनं परिसङ्ख्या' । प्रकृतेऽप्येकस्यानेकत्र प्राप्तस्य सादृश्यरूपवस्तुन एकत्र नियमनसंभवात् । ननु परिसंख्यायामेकत्र नियमेन पर्यवसानम् ।
___ अनन्वये वितरनिवृत्ताविति भेद इति चेत् मैवम् 'ताहगन्यत्यपोहाय परिसंख्या तु सा स्मृतेति' काव्यप्रकाशकारवचनात्तस्या अपि इतरनिवृत्ती पर्यवसानात् । अन्यथा लक्षणपरिसंख्यासंज्ञयोरनानुगुण्यापत्तिः । अत एवे. 'त्यश्वाभिधानीमाधत्त' इत्यादिनिवृत्तिः प्रधानः परिसंख्याविधिरिति मीमांसकाः प्राहुः । न च परिसंख्यालककारेऽनुपपत्तेरभावः । 'साकेत एव नगरी राम एव महीपति 'रिति । अत्रानुपपत्तेरपि सत्वात् । अतो नेदं लक्षणं युक्तम् । एतेनोपमानानन्तरसंबन्धाभावोऽनन्वय इत्यपि निरस्तम् । उपमेयो. पमायामतिव्याप्तेः । न च 'द्वितीयोपमानसंबन्धाभावोऽनन्वय' इति मतम् । अनुक्तोपमानोपमायामतिव्याप्तेः। यद्यप्येकावळीकारलक्षणम् - ' अनुगति. रूपमङ्गानामेकस्मिन्नेव जायते वाक्य। यद्येकस्य तदानीमन्वर्थोऽनन्वयः कथित' इति । तत्र वक्तव्यम् । उपमानशब्देनोपमानोपमेयोपमावाचकशब्दसाधारणधर्माः कथ्यन्ते। तथा सति किमुपमानोपमेयमात्रमुपमाजशब्देनोच्यते । किं वा परस्परभिन्नोपमानोपमेये । नाधः । 'रामो राम इव' इत्यादावप्यङ्गिभूतोपमाप्रसङ्गात् । न द्वितीयः । असंभवप्रसङ्गात् । अनन्वये भिन्नोपमानोपमेययोरभावात् । प्रागुक्तदूषणमप्यत्रानुसन्धेयम् । तस्मादनन्वयालद्वारलक्षणं दुर्निचमिति चेदत्रोच्यते -