________________
46
तथात्वेऽनन्वय इति विवक्षितमिति चेत् न । वक्ष्यमाणासंभव दोष. प्रस्तत्वात् । नन्वत्यन्ताभावप्रतियोगिधर्मव्यतिरिक्तधर्मावच्छेदेन एकस्यैवोपमानोपमेयत्वमनन्वयत्वमिति नोक्तदोषः । तत्रोपमानोपमेययोः प्रमेयत्वेनैक्येऽपि प्राति स्विकासाधारणधर्मावच्छेदेन भेदसत्वादिति चेत् न । केवलान्वयिधर्मव्यतिरिक्तद्रव्यत्वादिनापि तत्रोभयोरक्य' संभवेन तद्दोषतादवस्थ्यात् । ननु यद्धर्मावच्छेदेनोपमेयत्वं यस्योपनिबभ्यते तद्धर्मावच्छेदेन तस्योपमेयत्वमनन्वय इति लक्षणमिति चेन्मैवम् । 'रामो राघव इवे' त्याद्यनन्वये अत्र्याप्तिः । तत्र रामत्वावच्छेदेन उपमेयत्वात् 'राघवत्वावच्छेदेन उपमानत्वात् 'रामत्वरघुगोत्रापत्यत्वयोर्भेदात् । ननु तत्र राघवशब्देनाऽपि राम एवोच्यत इति चेन्न । रघुगोत्रापत्यत्वविशिष्टरामस्यैव उपस्थितत्वात् । ननु तत्र रामांशोऽपि प्रतीयत इति अनन्वय एवेति चेत्तर्हि 'रामो विष्णुरिवेत्युपमायामतिव्याप्तेः । विष्णुशब्देन रामस्यापि प्रतीयमानत्वात् । किञ्च अत्र एवकारोऽपि व्यर्थः । ननु उपमेयोपमायाम् अतिव्याप्तिनिरासार्थमेवकारः ।
तत्र द्वयोः पर्यायेणोपमानोपमेयभावाङ्गीकारादिति चेत् न । एकस्यैवोपमानोपमेयत्वस्य विरुद्धत्वेन असम्भवादसम्भवधर्मयोगेन इतरव्यावृत्तिव्यवहारयोर सिद्धेः । न हि गन्धवानाकाश इति गन्धवत्व लक्षणेना सम्भावनाकाशस्येतरव्यावृत्तिव्यवहारयोस्सिद्धेः । न चैकस्य व्याप्यव्यापकभाववदुपमानोपमेय
1
2
3
दोषसत्वात् त
संभवात् न
4
अलङ्कारराघवे
-
राघवत्वावच्छेदेन रामस्य उपमानत्वात् – न
रामस्य रघुगोत्रापत्यत्वयोः त
6
* रामो विष्णुरिवेत्युपमायामित्यारभ्य परिसंख्यायां वस्तुत्वेनैव अनेकत्र प्राप्तस्य ' इत्यन्तो भागः 'त' प्रतौ उपमेयोपमालङ्कार प्रस्तावे प्रमादवशात् आगतः दृश्यते ।
"