________________
27
ग्रहणेनैव तत्रातिव्याप्तिनिवृत्तेः । न चान्यपदमप्रकृर्तपरमिति वाच्यम् । व्यर्थविशेषण दिल्लमा विवक्षा' गोचरत्वस्मायुक्तत्वात् । ननु 'रामो राम इवामुष्य कीर्तिः कीर्तिरिवानमौ ' इत्यनन्वयालङ्कारे. 'रामस्य स्वरूपेण 'अन-' वयत्वेऽपि उपमानत्वेनोपमेयत्वेन चापि दोषस्थमस्स्येवेति चेत् हन्त तर्हि मिलग्रहणेनापि न तद्द्व्यावृत्तिस्सिद्धा । उक्तरूपेण भेदस्य सस्यात् । ननु तर्हि शिष्टमेव लक्षणमस्त्विति चेन्न । अन्यग्रहणस्यापि व्यर्थत्वात् । किं तदनन्वया. लङ्कारव्यावृत्यर्थम् ? किं वा ! रघुप्रवीरेण कथं विभीतिना 'सर्वापि जातिः कविनोपमीयते' इति प्रतीपालका स्व्यावृत्त्यर्थ वा । नाचः स्वतस्सिद्धेन 'धर्मतः साम्यमित्यनेनैव स्वतस्सिद्धस्य वस्तुनोऽन्यत्वप्रतीतेः तस्य व्यर्थत्वात् साधर्म्यस्य भेदगर्भत्वेन एकस्य स्वापेक्षया धर्मसाम्याभावात् । मत एव अनन्वयालङ्कारे द्वितीमसब्रह्मचारिव्यावृत्तिः प्रयोजनं सिद्ध्यति । न द्वितीयः । वर्ण्यस्य स्वतस्सिद्धेन साम्यमिति षष्ठीनिर्देशेनैव वर्ण्यस्येतर प्रतियोगिक साधर्म्यप्रतीतेरितरस्य वर्ण्यप्रतियोगिक साधर्म्यप्रतीतेः प्रतीपालद्वारे लक्षणास्तेः ।
तत्र वर्ण्य प्रतियोगिकसाधर्म्यस्यैव वाच्यत्वात् न च तावदेवास्तु लक्षणमिति वाच्यम् । सम्मतेनेत्यस्यापि व्यर्थत्वात् । ' नन्वज इव गम्भीरोऽयं
1
द्वित्वयोर्विवक्षा
-आ
2
• गौरवस्यायुक्तत्वात् - त
8
राघवस्य
-आ
' ' अनन्वयत्वेऽपि ' इत्यारभ्य लक्षणमस्त्विति पर्यन्तो भागः 'आन'
प्रत्योः नास्ति
5
कारप्रकरणम्
6
१
8
सपारिजातेः कबिनोपमीयते—त, न
धर्मसाम्यम्
-a
एकस्या स्वापेक्षया आ
साधर्म्यप्रतीतिः -- त