________________
उपमामाकरणम्
23
राभावप्रसङ्गात् । ननु उपमालंकारप्रतियोगिधर्मिणोरेव 'उपमानोपमेयत्वं, न कार्यकारणयोस्तदिति चेत् अस्तु नाम तथा । तथापि लक्षणे साधर्म्यशब्देन उपमालद्वारप्रतियोगिधर्मिगतसाधम्य विवक्षितमित्यन्योन्याश्रयो स्याताम् । उपमासिद्धावुपमासिद्धिरित्यात्माश्रयः । उपमानोपमेयज्ञाने 'तत्साधर्म्यद्वारा उपमा
ज्ञानमुपमाज्ञानेच तत्प्रतियोगिधर्मिरूपोपमानोपमेयज्ञानसिद्धिरित्यन्योन्याश्रयः । • ननु कविसमयसिद्धसाधय साधर्म्यशब्देन विवक्षितमिति नोक्तदोष इति चेत् किमिदं कविसमयसिद्धत्वं नाम : कविसमयप्रसिद्धत्वं था। तत्कल्पितवं वा ? नायः । सर्वजनप्रसिद्ध कार्यबाणसाइये कविसमयप्रसिद्धरपि सत्वात् । ननु कविसमयमात्रसिद्धत्वं विवक्षितमिति चेदुच्यते। ''कविसमयमात्रसिद्धत्वं नाम, कवीतराप्रसिद्धल्वे सति कविप्रसिद्धत्वम् । तथासत्यसंभवो लक्षणस्य स्यात् । उपमालङ्कारस्थलीयसाधर्म्यस्यापि कवीतरव्युत्पन्न श्रोतृजनप्रसिद्धत्वात् ।। द्वितीयेऽपि सर्वकविकल्पितत्वं वा। कतिपयकवि. कस्पितलं वा । मत्र यः कविः तत्कल्पितत्वं वा । नायः। 'सर्वकविकल्पितत्वस्याऽसर्वज्ञादिज्ञात्वादसंभवप्रसवात् । न द्वितीयः । कार्यकारणसाधर्म्यम्यापि कतिपयकविकल्पितत्वेन तद्दोषतावस्थ्यात् । कार्य निदा
- 'उपमानोपमेयत्वमिति–त,न ' तत्साधर्म्यद्वारा उपमा, उपमाज्ञान-त 'धर्मरूपो समानोपमेयज्ञान-त,आ ' इति चेदुच्यते-त,न
... 'सर्वजगत्प्रसिद्धे-त
. 'कविसमयभूतसिद्धत्वं-न 'श्रोत्रजन्यप्रसिद्धत्वात्-त 'सर्वकविकल्पितत्वस्य असर्वज्ञाविज्ञेयत्वात्-त,न नैषधे-तृतीयसर्गः