________________
सन्दालकाप्रकरणम् युक्तम् । 'यमकेऽतिव्याप्तेः । न च बाकवृत्त्यनुप्रासयोः ममेद इति विद्याधरणोक्तमिति वाच्यम् । अनुप्रासे वर्ण साम्यरूपे यमके स्वरायन पंगानमुषंगाभ्यां भेदोपपत्तेः । चतुर्थलक्षणेऽपि बक्तव्यम् । किम् एक व्यन्जनपौनरुक्त्यं वृत्त्यनुप्रासः, किं वा द्वयोर्व्यन्जनयोः । विप्रभृतीनां था। समुच्चितानां वा । एकद्विप्रभृत्यन्यतरव्यञ्जनपौनरुक्त्यं वा । नाद्यः । 'द्वयादि व्यञ्जनावृत्तिरूपवृत्त्यनुप्रासेऽव्याप्तेः । न द्वितीयः । एकादिव्या जनावृत्तिरूपे तस्मिन्नेवाऽव्याप्तः । च्छेकानुप्रासेऽतिव्याप्तेश्च । अत एव न तृतीयः । न चतुर्थः । असम्भवप्रसङ्गात् । संभवें वा एकव्यंजनपौनरुक्त्यरूपवृत्त्यनुप्रासे अव्याप्तेः । न पञ्चमः। अन्यतरशब्देन चकन्यजनविवक्षायामुक्तदोषा. नपायात् । सर्वविवक्षामां च तद्दोषतादवस्थ्यम् । अतो न तानि वृत्त्यनुप्रासलक्षणानि युक्तानि । ननु 'रसोचितवर्णरचनारूपवृत्युपलक्षितानुप्रासो वृश्यनुप्रासः ' इति लक्षणमस्त्विति चेत् मैवम् । च्छेकानुप्रासेऽतिव्याप्तेः । तस्यापि रसोचितवर्णरचनारूपवृत्युपलक्षितत्वात् । नापि कृत्यमुपासत्व'जातिघटितलक्षणमिति वाच्यम् । तज्जात्यनंगीकारवादिनं प्रत्यसंभवापत्तेः । तस्माद्वृत्त्यनुप्रासलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते । ' एकद्वित्रिव्यन्जना. वृत्तिरूपत्वाधिकरणत्वे सति त्रिप्रभृतिव्यजनावृत्तित्वानधिकरणासकृव्यञ्जनमात्रवृत्तिव॒त्यनुप्रासः' इति लक्षणनिष्कर्षः । अत्र त्रिप्रभृतिष्यजनावृत्ति. रूपविशेष्यसत्वेऽपि सत्यन्तविशेषणासत्वात् विशिष्टानधिकरणत्वगर्मलक्षणानु.
AAS.
यमकेऽतिव्याप्तिः-त ' यमके वा स्वरावृत्त्यनुषङ्ग-त 'ज्यादि-न 'नैकैकव्यञ्जन-त,न 'तिव्याप्तिः-त 'जातिस्तल्लक्षणमिति--त