________________
बलकारप्रकरणम्
'जात्यंगीकारे, सति हेतावन्यगुणस्वीकाराभावरूपाऽतद्गुणालंकारे पोनरुक्तय. दोषाभावरूपपुनरुक्तवदाभासालंकारे च जातिप्रसङ्गः । न चेष्टापत्तिः । सर्ववादिभिः। अभावे जातेरनंगीकृतत्वात् इति चेन्मैवम् । तयोरुक्तरूपेणाभावरूपत्वेऽप्यलंकारत्वेन भावरूपत्वात् 'तयोरलंकारत्व'जात्यंगीकारे दोषाभावात् । अन्यथा 'घटाभावाभावरूपत्वेन घटादावपि घटत्वादिजातिन स्यात् । घटाद्याकारेण भावरूपत्वात् । तत्र तदंगीकारे तुल्यं प्रकृतेऽपीति सन्तोष्टव्यमायुष्मता। अत एवालंकारिकाणां सजातीयविजातीयसंकरव्यवहाराऽन्यथानुपपत्तेरुपमात्वादिजातिरपि सिद्धयतीति ज्ञेयम् । ... स चाऽलंकारो द्विविधः । शब्दालंकारोऽलंकारश्चेति । तत्र शब्दसंयुक्तोऽलंकारः शब्दालंकारः । अर्थसंयुक्तालंकारोऽर्थलंकारः । शब्दार्थालंकाराणां परस्परभेदस्तल्लक्षणभेदादेव द्रष्टव्यः ।
॥ अथ व्छेकानुप्रासः ॥ तत्र च्छेकानुप्रासो निरूप्यते । ननु-'सोऽनेकवारं सकृत्पूर्व' इति 'काव्यप्रकाशकारः । 'शब्दस्य पौनरुक्त्यं व्यञ्जनसमुदायमाश्रितं यत्स्यात् । स च्छेकानुप्रासस्सङ्ख्या नियमे समुल्लसती'त्येकावळीकारः । .
'सकृत्सारूप्यमन्योन्यं यद्वर्णसमुदाययोः' इति साहित्यचिन्तामणि. कारः ।
'जात्यलंकारे-त . 'पौनरुक्त्यदोषाभाव' इति भागः 'त' प्रतौ नास्ति । 'त्योरलंकारत्वे जात्यङ्गीकारेऽपि-त 'जात्यंगीकारेऽपि दोषाभावात्-त ' घटाभावरूपत्वेन-त ... 'काव्यप्रकाशिकाकारः -म ..... . ..