SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ " उभाभ्यामलंकाराभ्यां काव्यमलेक्रियत ' इति 'व्यवहारात् काव्यस्य च शब्दार्थोभयरूपत्वात् । शब्दार्थालंकारव्यपदेशस्तु साक्षात्सम्बन्धमादायेति म कोऽपि दोषः । यद्वा ' अलंकारत्वजातिरेव अलंकारसामान्यलक्षणम् । न चात्माश्रयशेकावकाशः । ' शब्दसमवेतव्यावृत्तशय्यातिरिक्तया वच्छब्दार्थसंयुक्तधर्मानुवृत्तो जातिविशेषोऽलंकारत्वमिति निर्वचनात् । अत्र 'वृत्तित्वादिजातावतिव्याप्तिनिरासार्थं संयुक्तस्युक्तम् । न च प्रथमप्रतीकेनैव तद्व्यावृत्तिः । वृतिस्वादेरपि यत्किञ्चिच्छद समवेतव्यावृत्तत्वात् । यावदित्यनेन अनु प्रासत्वोपमात्वादिव्यावृत्तिस्सिध्यति । अत एव गुणस्वकर्मत्वद्रव्यस्यादौ नातिव्याप्तिः । शब्दार्थसंयुक्ताननुवृत्तत्वात् । प्रथमप्रतीकेन सत्तायामतिव्याप्तिनिरासः । न च अलंकारत्वजातौ मानाभावः । सर्वालंकारेष्वनुगतालंकार बुद्धिरेव । असति बाधके जातिकल्पकत्वात् लोष्टादौ द्रव्यानुगतबुद्धिवत् पण्डितानुगत बुद्धेरपि जातिकल्पकत्वम् उपपद्यते । नन्वलंकारत्व 1 (i) तद्युको व्यञ्जकः शब्दः यत्सोऽर्थान्तरयुक्तथा । अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः । (ii) शब्दप्रमाणवेद्योऽर्थः व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता ॥ restrad (काव्यप्रकाशः - २ उल्लासः - २० का ) 2 इत्येतौ श्लोकौ द्रष्टव्यौ । वृत्तित्वरी तित्वादि - म, त 8 न चालंकारस्वजात्यलंकारे स्थितौ मानाभावः - त (काव्यप्रकाशः - ३ उल्लास २ का ) 4 6 • गुणत्वकर्मत्व' इतितः सर्वालंकारेषु इति पर्यन्तो भागः 'म' प्रतौ न दृश्यते ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy