SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अलङ्कारप्रकरणम् 3. विशिष्टशब्दार्थ रूपकाव्यस्य चं अद्रव्यरूपत्वेन 'संयोगाभावादसंभवो लक्षणस्येति चेत् सत्यम् । तद्रूपेण न संयोगसंभवः । तथापि लोके काव्यालङ्कारयोस्संयोगदर्शनात् प्रकृतेऽप्यलङ्कार्यालङ्कारत्वावच्छेदेन संयोगस्सम्भवतीति नाऽसम्भवः । न चैवं शय्यायामतिव्याप्तिः । तद्व्यतिरिक्तपदेन " तन्निवृत्तेः । तथाऽप्यत्र लक्षणे शब्दगतधर्मो वा विवक्षितः । अर्थगतधर्मो वा । समुच्चितोभयगतो वा । तदन्यतरगतो वा । नाद्यः । अर्थालङ्कारेष्वव्याप्तेः । न द्वितीयः । शब्दालङ्कारेष्वव्याप्तेः । न तृतीयः । असम्भवापत्तेः । 'अनुप्रासोपमादिरुभयधर्मत्वासंभवात् । न चतुर्थः । अन्यतरशब्देन शब्दविवक्षायाम् अर्थविवक्षायाम् उभयविवक्षायां चोक्तदोषानतिवृत्तेः । अत एव न तदुभयव्यतिरिक्तव्यतिरिक्तत्वमन्यतरशब्दार्थ इत्यपि निरस्तम् । व्यति. रिक्तव्यतिरिक्तशब्देऽप्युक्त विकल्पत दूदूषणप्रसारात् । " ततो लक्षणमिदं न संभवतीति चेदुच्यते- + समुचितोभयधर्मत्वमेव लक्षणे विवक्षितम् न चाऽसंभवः । 1 2 शब्दालङ्कारैश्शब्दद्वाराऽर्थोऽलंक्रियते । अर्थालङ्कारैरप्यर्थद्वारा शब्दोऽलंक्रियते ॥ संयोगासम्भवादसम्भवो न तद्रूपेण संयोगसंभवं तदा लोके अलंकार्यालंकारयोः संयोग दर्शनात् — म तद्वृत्तेः — आ ननु तथाऽप्यत्र म, त, न ततो लक्षणमेतन्न संभवतीति मन .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy