SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ xxii मदरास्अडयार् पुस्तकभाण्डागारात् संशोधनालयं प्रत्यानाय्य मां प्रति प्रादुः । तथा सम्पादनादिकर्मणि उपयुक्तसूचनाः दत्वा महोपकारमकुर्वन् । तञ्जावूरुपुस्तकभाण्डागारात् हस्तप्रतिप्रतिकृतिं (Transcription Copy) आनाययितुं तथा मूलहस्तप्रत्योः मैक्रोफिल्मप्रती च आनयनार्थम् एवं सम्पादितकृति मुद्रणालयप्रेषणे च संशोधनालयस्य प्राक्तननिर्देशकाः विद्वांसः डा. हेच्. पि. मल्लेदेवरुमहाभागाः भूरि साहाय्यं कृतवन्तः । संपादितमन्थं मुद्रणार्थ मुद्रणालयप्रेषणविषये हस्तप्रत्यानयनादिविषये च संशोधनालयस्य उपनिर्देशकाः 'पण्डितरत्नं' 'वेदान्तभूषणम्' इति बिरुदभाजः विद्वांसः श्रीमन्तः आर्. जि. माळगिमहोदयाः महान्तमुपकारं चकुः । विश्वविद्यानिलयस्य मुद्रणविभागस्थाः वयस्याः सहृदयाः श्रीनरसिंहदेसा यिमहोदयाः बहु साहाय्यं दत्तवन्तः । पाठपरिष्करणपाठस्वीकरणादिसंपादनकर्मसु वयस्याः सहृदया: विद्वांसः प्राच्यसंशोधनपण्डितः ' इति बिरुदभाजः कलानिपुणाः श्रीमन्तः हेच. शङ्करगणपतिफाटकमहोदयाः तथा 'संस्कृतभाषाविचक्षण' इति बिरुदभाजः मित्रवर्याः सहृदयाः विद्वांसः श्रीमन्तः हेच्. वि. नागराजराव्महाभागाः महत्या प्रीत्या उपयुक्तास्सूचना: दत्वा अविस्मरणीयं साहाय्यं प्राददुः । प्राक्तनसंशोधनपण्डिताः विद्वांसः श्रीमन्तः बि. वि. नरसिंहाचार्य - महाशयाः ग्रन्थलिपिपरिचयविषये उपकृतवन्तः । अस्मदीयस्य संशोधनालयस्य इदानीन्तना: निर्देशकाः विद्वांसः डा. के. राजगोपालाचार्य महाभागाः मुद्रणाय मुद्रणालयं प्रति ग्रन्थप्रेषणार्थं सम्पादनादिकर्मणि च महोपकारं कृतवन्तः । मैसूरुविश्वविद्यानिलयस्य स्नातकोत्तरसंस्कृतविभागस्य प्राक्तनमुख्याः, प्राध्यापकाः विद्वांसः श्रीमन्तः एस्. रामचन्द्ररा महाभागाः एकदा संशोधनालयं प्रत्या. गच्छन् । तदाऽहमस्य ग्रन्थस्य सम्पादनकर्मणि निरतः आसम् । तदा ते कुतूहलेन कृतिमिमां समग्रतया दृष्ट्वा हर्षिताः अभवन् । संशोधनकार्ये उपयुक्तास्सूचनाश्च प्रायच्छन् । 6
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy