________________
xxi
तर्कशास्त्रानुसारात् अनुमानमेकं प्रमाणम् । तदपि अलङ्काररूपेण निरूपयितुं, सहृदयरञ्जकत्वेन च वर्णयितुं शक्यते इति कृत्वा एषोऽपि अनुमानालंकारं भणितवान् । तस्योदाहरणम् --
' यतः स्वच्छाकारे प्रतिफलति मच्चित्तमुकुरे रघूणामुत्तंसः कटितुटलसत्पीतवसनः । स्फुरत्स्फारो हारादयुगमणीकुण्डलधरः
ततः सीतावीतः स विभुरतिसान्निध्यमयते || ' इति । (शिखरिणीवृत्तम् - पृ.सं. २२१)
एवं प्रकारेणाऽयं कृतिकारः बहुषु शास्त्रेषु निष्णातः आसीदित्यवगम्यते । एवमेवाऽस्य शैली सुलभा मधुरा गम्भीरा च वर्तते । ग्रन्थस्तु गद्या - त्मकः । उदाहरणानि स्वकीयानि रामपराणि पद्यानि च । पूर्व प्राचीन लंकारिकाणां लक्षणकथनं, तद्विमर्शनं खण्डनञ्च । अन्ते स्वकीयलक्षणमण्डनं, दळकृत्यप्रदर्शनम्, उदाहरणम् इत्येवं रीत्या प्रन्थनिरूपणक्रमो वर्तते ।
एवमपूर्वोऽयं नवनवीनः एकः अलंकारशास्त्रमन्थः इदंप्रथमतया संस्कृतवाङ्मयप्रपञ्चे प्रकाशितः अधुनेनि महानानन्दो जायते मम ।
कृतज्ञतासमर्पणम्
अस्य ग्रन्थस्य संशोधने सम्पादने च महान् श्रमः मयानुभूतः । परं ' क्लेशः फलेन हि पुनर्नवतां विधत्ते' (कुमारसम्भवे - ५ सर्गः ) इति कविवाण्यनुसारात् स च श्रमः अधुना आनन्दरूपेण परिणतः । एतस्य संपादनवेलायां बहवः विद्वांसः भूरि साहाय्यं कृतवन्तः । तान् प्रति कृतज्ञता समर्पणं मदीयं कर्तव्यम् ।
अस्य प्राच्यविद्या संशोधनालयस्य प्राक्तननिर्देशकाः कीर्तिशेषाः विद्वांसः डा० जि. मरुळसिद्धय्यमहोदयाः अलङ्कारराघवस्य ग्रन्थलिपिस्थां मूलहस्तप्रतिमेव