________________
XX
व्याकरणशास्त्रपरिचयोऽप्यस्य समीचीनमासीदिति उदाहरणादिभिः विज्ञायते । दिङ्मात्रमुदाहियते -
) शब्दालंकारसंसृष्टयुदाहरणे सतिसप्तमीप्रयोगः अपूर्व क्रियापदप्रयोगश्च परिदृश्यते यथा - 'नटकुले निकटे नटनोद्यते ।
सकटकं घटयन मुकुटं स्फुटम् । अधित दाशरथिर्धरणीधुरं सफणदं धणदंधणदुन्दुमि ॥'
(द्रुतविलम्बितवृत्तम्-पु.सं. २४६) समीपे नटवर्गे नाट्यप्रवृत्ते सति, दुन्दुभौ फणदं धणदं धणदम् इति शब्दायमाने सति सकटकं मुकुटं धृत्वा रामः भूभारं धारयामास इत्यर्थः । अत्र 'अधित' इति क्रियापदम् । धृतवानित्यर्थः । डु-धाञ् धारणपोषणयोः इति धातोः लुङ्लकारे प्रथमपुरुषैकवचनान्तं रूपम् । . . ii) तद्धितप्रयोगस्योदाहरणम् - अनुक्तधर्मवादिः कर्मक्यचा लुप्ता (उपमा) यथा -
'मध्याह्नार्कमलक्तकवलयायति देवदीपिकामभितः । शोणनदीयति राघवमौळिमणिदीप्तिरभितस्सङ्कीर्णा ॥'
(आर्यावृत्तम्-पु.सं. ३७) । iii) तद्धितगा पूर्णा आर्थी (उपमा) यथा - 'मन्देसराच्छकुरुविन्ददळावनद्धा
रामस्य मध्यकलिता नबमेखलेयम् । आकाशतः प्रमृमरोल्बणसान्ध्यराग. दिङमण्डलीवदभिभाति विलोकयध्वम् ॥' .
(वसन्ततिलकावृत्तम्-पु.सं. ३५) ,