SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ xviii तर्कशास्त्र विशेषपरिश्रमः अस्यास्तीति कृतेरालोकनादेव ज्ञायते । तेनोक्तं परिणामालङ्कारलक्षणमिदम् -- . .. 'तर्कितयद्व्यतिरेकसत्ताविनाभूतसत्ताधिकरणतर्कितव्यतिरेकप्रतियोगिप्रकृतकार्यत्वे मति आरोपान्तरानुकूलारोपजिज्ञासानुत्पादकनिर्णीतविशेषांशतादात्म्यावस्थितैकारोपः परिणामालंकारः' इति । . (पु.सं. ६४) विशेषालंकारलक्षणमेतत् - __ 'आधाररहिताधेयरूपत्वान्नैकगोचरैकरूपत्वाधिकरणत्वे सत्यशक्यवस्तुकरणरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणं विशेषालंकारलक्षणम् ' इति । . . (पु.सं. १४४) निदर्शनालंकारलक्षणमिदम् - 'असम्भवद्वस्तुसंबन्धनिमित्तप्रतिबिम्बकरणरूपत्वाधिकरणत्वे सति संभवद्वस्तुनिमित्तप्रतिबिम्बकरणरूपत्वानधिकरणमेतद्विशेषणविशेप्योभयाभावानधिकरणालंकारी निदर्शनालंकारः' इति । (पु.सं. १७५) अत्र सर्वत्र विना तर्कज्ञानेन कथमवगम्यन्ते लक्षणान्येतानि । - कवितारचनायां कुशाग्रधीरेषः रसिकश्च । उदाहरणपद्यानि रसयुतानि सहृदयरञ्जकानि च । सर्वाण्यमूनि मुक्तकरूपेण सन्ति । एवमेव अलङ्कारसङ्घटनाऽपि हृदयहारिणी विलसति । तद्यथा - यमकोदाहणपद्यमिदम् - 'स उपदेशमजात्मजपुत्रयो रतिबलेति बलेति च विद्ययोः । श्रमविनाशिकयोः कुशिकात्मभूः विहितवान् हितवाञ्छितदायकः || ' इति । (द्रुतविलम्बितवृत्तम्-पु.सं. ११)
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy