SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ xvii स्मरणालंकारनिरूपणाझरीयम् –' भेदाभेदप्रधानसाधर्म्यमूलत्वे तुल्येऽपि स्मरणालंकारस्य स्ववाचकशब्देन अवाच्यसाधर्म्यमूलत्वात् अनन्वयोपमेयोप. मेयोपमापेक्षेया जघन्यत्वात् अत्र निरूपणमुचितमित्यवान्तरसङ्गतिः । यद्वा भेदाऽभेदप्रधानालङ्कारप्रस्तावे परिशेषात् स्मरणालंकारनिरूपणमुचितमित्यवान्तरसङ्गतिः । पेटिकासङ्गतिस्तु स्पष्टैव । ननु- यथानुभवमर्थस्य दृष्टेः तत्सदृशे स्मृतिरित्यलंकारसर्वस्वकारः । ‘स्मरण सदृशार्थस्य दर्शनात् सदृशस्मृति 'रिति साहित्यचिन्तामणिकारः। 'सदृशं सदृशानुभवाद्यत्र स्मर्यंत तत्स्मरणम् ' इति विद्याधरः। 'सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते' इति विद्यानाथः । तत्र सर्वत्र 'सदृशदर्शनजन्यसदृशवस्त्वन्तरस्मृतिः स्मरणम्' इति निष्कृष्टार्थः । तत्र वक्तव्यम् । सदृशदर्शनजन्यतावच्छेदकं किञ्चिदस्ति न वा। नान्त्यः । तदसत्वे तज्जन्यताया एव दुहत्वेन इतरभेदसाधने अज्ञानासिद्धिप्रसङ्गात् । आये तत् किं स्मृतित्वं वा । सदृशदर्शनजन्यस्मृतित्वं वा । स्मृतिव्यतिरिक्तस्मृतित्वं वा । अन्यद्वा । नाद्यः । तस्य अतिरिक्तवृत्तित्वेन अनवच्छेदकत्वात् । न द्वितीयः । अन्योन्याश्रयप्रसङ्गात् । न तृतीयः । तादृशस्मृतित्वस्य सर्वदर्शनजन्यताग्रहं विना दुर्घहत्वात् । उक्तदोषानपायात् । नान्त्यः। अनिर्वचनात् । तस्मात् स्मरणालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते --' यद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगिसदृशदर्शनं ताहक्स्मरणोपनिबन्धः स्मरणालङ्कारः' इति लक्षणनिष्कर्षः । अत्र जन्यत्वागमत्वात् न पूर्वोक्तदोषः । उदाहरणम् - ' त्वां मार्गमाणो विपिनेषु रामो . विलोक्यते नूपुररत्नमेकम् । सहायशून्येतरनूपुरस्य संस्मृत्य सीते समुपैति चिन्ताम् ॥' इति । (पु.सं. ५२-५३)
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy