________________
.
xvi
ग्रन्थे विषयनिरूपणाक्रमः सामान्यतः अलंकारशास्त्रस्य लक्षणग्रन्थेषु सर्वत्र काव्यलक्षणं, काव्यविभागः नायकभेदः, तत्स्वरूपं, नायिकाविभागः, तत्सहकारिणः देश-भाषाभूषणादयः, अभिधादिवृत्तित्रयम् , ध्वनि-रस-दोष-गुणालंकारादयः, नाट्यांशाः इति अनेके विषयाः विचार्यन्ते । एषा प्राचीनसरणिः नवीनसरणिश्च । सैव सरणिरनेनाप्यनुसृता।
- अलङ्कारराघवस्य प्रथमभागः संपादनक्रमानुरोधात् अलंकारराघवस्य प्रथमभागे उपोद्घातप्रकरणतः, गुणप्रकरणपर्यन्तं काव्य-तद्विभाग-नायक-अभिधा-लक्षणा-व्यञ्जना-ध्वनि-रस-दोषपाक-गुणादयो विषयाः निरूपिताः । अलंकारभागः द्वितीयभागे संकलितः । काव्यादीनां सुदीर्घ निरूपणमत्र विस्तृततया निरूपितं विद्यते ।
अलङ्कारराघवस्य-द्वितीयभागस्य विषयाः
निरूपणाक्रमश्च अस्मिन् द्वितीयभागे शब्दालंकाराः अर्थालंकाराश्च संकलिताः । शब्दालंकारप्रकरणे षडलंकाराः, अर्थालंकारप्रकरणे ७८ अलंकाराश्च सप्रभेदं निरूपिताः । आदौ अलंकारसामान्यलक्षणं, ततः शब्दालंकारान् , अर्थालंकारांश्च निरूपयति।
अयं च यज्ञेश्वरदीक्षितः साहित्यशास्त्र निशितमतिरासीत् । पण्डितसार्वभौम इति विख्यातस्य ग्रन्थकर्तुः प्राचां नवीनानां चालंकारिकाणां ग्रन्थपरिचयः सम्यगासीत् । अलंकारसामान्यलक्षणादारभ्य आग्रन्थपरिसमाप्तेः मम्मट-अलंकारसर्वस्वकाररुय्यक-विद्यानाथ-विद्याधर-साहित्यचिन्तामणिकारवीरनारायणादीनामलंकारलक्षणानि यथावदनूद्य तत्र दोषानुद्भाव्य स्वतन्त्रतया स्वकीयनिर्दष्टलक्षणानि कथयति ।