________________
अनुबन्धः
137
139
24) पर्यायोक्तालंकारलक्षणम् -
'प्रस्तुतकार्यवर्णनय। अप्रस्तुतकारणावगमनमप्रधानावस्थापन्नं
सत् पर्यायोक्तमलङ्कारः' 25) स्वभावोक्त्यलंकारलक्षणम् -
विद्यानाथलक्षणमेवाङ्गीकृतम् । तत्तु लक्षणम् -
‘स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ' 26) विरोधालंकारलक्षणम् -
'जात्यादेः जात्यादिभिः सह विरोधाभासरूपत्वाधिकरणत्वे सति द्रव्यस्य द्रव्येण सह विरोधाभासरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणविरोधाभासो
विरोधालङ्कारः' 27) विशेषालंकारलक्षणम् -
'आधाररहिताधेयरूपत्वान्नैकगोचरैकरूपत्वाधिकरणत्वे सत्यशक्यवस्तुकरणरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावा
नधिकरणं विशेषालङ्कारलक्षणम्' 28) विषमालंकारलक्षणम् -
'विरुद्धकार्योत्पत्तिरूपत्वानोत्पत्तिरूपत्वाधिकरणत्वे सति विरूपघटनारूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधि
करणं विषमालंकारः' 29) समालंकारलक्षणम् -
'अनतिशयोक्तिमूलत्वे सत्यनुरूपधटनम् अनौपम्यपर्यन्तत्वे
सत्यनुरूपघटनं वा समालङ्कारः' 30) अधिकालंकारलक्षणम् - .
लक्षणभागः लुप्तः इति प्रतिभाति ।
144
147
149
150