________________
xiii
1
तावूरुपुस्तकभाण्डागारस्य अन्या हस्तप्रतिः । ताळपत्रात्मिका आन्ध्रलिपिमयी पूर्णा च वर्तते । ग्रन्थारम्भः ग्रन्थपरिसमाप्तिश्च सर्वोऽपि देवनागरीहस्तप्रतिवदेवास्ति ।
(एतासां सर्वासां हस्तप्रतीनां समग्र विवरणं अनुबन्धभागे प्रदत्तमस्ति ) -
अस्य ग्रन्थस्य सम्पादनक्रमः
अलङ्कारराघवस्य हस्तप्रतिसमुपलब्ध्यनन्तरं संपादनकार्यमारब्धं मया । प्रथमतः मैसूरुप्राच्यविद्या संशोधनालयस्य ताळपत्र स्वीकृत्य यथाहस्तप्रति प्रतिकृतिं लिखितवानहम् । अर्थालंकारप्रकरणं तत्र असमग्रमस्तीति दृष्ट्वा मनसि चिन्ता समुद्भूता । तस्मिन्नेव समये Catalogus Catalogorum तथा New Catalogus Catalogorum इति ग्रन्थद्वयं मयाऽवलोकितम् । तत्र मदरास अडयार पुस्तकभाण्डागारे तजावूरुसरस्वतीमहल्पुस्तकभाण्डागारे च हस्तप्रतयः समुपलभ्यन्ते इति दृष्ट्वा मनसि हर्ष सञ्जातः । सद्य एव मदरास्तावूरुपुस्तकभाण्डागारयोः विवरण /त्मकग्रन्थसूच्यौ अवलोक्य हस्तप्रतिविषयं संग्राहयामास । ततः मदरास अडयार पुस्तकभाण्डागारात् संशोधनालयद्वारा मूलहस्तप्रतिमेवानाय्य प्रतिकृतिमकरवम् । ततः तञ्जावूरुसरस्वतीपुस्तकभाण्डागारात् मूलहस्तप्रतेः रचितां प्रतिकृतिं (Transcription copy) संशोधनालयद्वारा आनाययामास । परं सा प्रतिकृतिः (No. B. 5330 DST 32 Total number of pages 863) लिपिव्याकरणादिदोषयुताऽऽसीत् । पुनश्च तस्मादेव पुस्तकभाण्डागारात् द्वयोः हस्तप्रत्योः मैक्रोफिल्मप्रती: (Microfilm copies) आनाय्य संपादनकार्यमारब्धवान् । मदरा सुहस्तप्रतौ अर्थालङ्कारप्रकरणं विना समयः भागः आसीत् । शब्दालङ्कारप्रकरणेऽपि केचन भागाः लुप्ताः आसन् । मैसूरु
1 Descriptive Catalogue, Tanjore-VOL-Ix, p. 3975