________________
Xiy
संशोधनालयस्य हस्तप्रतौ शब्दालङ्कारप्रकरणम् अर्थालङ्कारप्रकरणं च आस्ताम्। तञ्जावूरुहस्तप्रत्योः ग्रन्थः समप्रतयाऽऽसीत् । एतासां हस्तप्रतीनां साहाय्यात् अस्य संपादनकार्यकरणवेलायां मनस्येकमालोचनं समुद्भूतम् । अत्र अलङ्कारप्रकरणभागः बहुविस्तृततयाऽस्ति । अतः भागमिममेव प्रत्येकं कृत्वा भागद्वये संपादनं करणीयमिति । तदा समालोचनेयं कार्यपथे समपिता ।
तदनुरोधात् ग्रन्थोऽयं प्रथमद्वितीयभागयोः द्विधा विभक्तः । प्रथमभागे उपोद्घात-नायक-काव्य-ध्वनि-रस-दोष-गुणादीनां विचाराः, द्वितीयभागे शब्दालकाराणामर्थालंकाराणाञ्च विषयाश्च संयोजिताः। ग्रन्थकारः ग्रन्थमध्ये अनेकेषामालंकारिकाणान् नामान्युद्धृत्य तेषां लक्षणादिकमनुवदति । तत्र बहूनामालंकारिकाणाम् अनेके ग्रन्थाः मुद्रितास्सन्ति । केचन ग्रन्थाः अमुद्रिताः हस्तप्रतिरूपेण विद्यन्ते । संपादनसमये संशयगमनवेलायां मुद्रितअन्थानां साहाय्यं स्वीकृत्य पाठान्तरादिकमपि ऊरीकृतम् । संपादनकार्ये उपयुक्तानां हस्तप्रतीनां, मुद्रितपुस्तकानाश्च सङ्केतः मयैव अङ्गीकृतः । शब्दालङ्कारप्रकरणे दोषपूर्णाः केचन भागाः यथामति शोधिताः । केचन भागाः गत्यन्तराभावात् यथाप्रति प्रदत्ताः ।
ग्रन्थे उपरि भागे मूलं प्रदत्तमस्ति । अधोभागे पाठान्तराणि टिप्पण्यादीनि च प्रदत्तानि । मध्ये मध्ये स्वीयां बुद्धिमनुसृत्य टिप्पणीः मयैव आरचिताः । पाठान्तरादीनां टिप्पण्यादीनां सर्वेषां संख्या क्रमशः दत्ताऽस्ति । तथा इतरेषामालंकारिकाणां (ग्रन्थकारेण अनुद्धृतानाम्) लक्षणादीनि एकत्रैव लभ्यन्तामिति समालोच्य तानि यथावकाशमधोभागे प्रदत्तानि ।
अयं चापरो विशेषः । नाट्यप्रकरणे दशरूपकाणां निरूपणानन्तरं उदाहरणत्वेन 'अद्भुतरामः' इति नाटकमेकं सोदाहणं रचितवानस्ति ग्रन्थकृदयम् । तदपि नाटकं प्रत्येकं पुस्तकमेव भवतु इति निश्चित्य नाट्यप्रकरणात् विभक्तं कृतम् । एतदपि प्रत्येकं पुस्तकरूपेण आगमिष्यति ।